पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
प्रथमोद्योतः


लोचनम्

स्खलिताद्यपराधिनि नायके सति ततः प्रतिगन्तुं प्रवृत्ता, नायकेन चाटूपक्रमपूर्वकं निवर्त्यते । न केवलं स्वात्मनो मम च निर्वृतिविघ्नं करोषि, यावदन्यासामपि; ततस्तव न कदाचन सुखलवलाभोऽपि भविष्यतीत्यत एव हताशासीति वल्लभाभिप्रायरूप- श्चाटुविशेषो व्यङ्ग्यः ।

 यदि वा सख्योपदिश्यमानापि तदवधीरणया गच्छन्ती सख्योच्यते-न केवलमा- त्मनो विघ्नं करोषि, लाघवादबहुमानास्पदमात्मानं कुर्वती, अत एव हताशा, यावद्व- दनचन्द्रिकाप्रकाशितमार्गतयान्यासामप्यभिसारिकाणां विघ्नं करोषोति सख्यभिप्राय- रूपश्चाटुविशेषो व्यङ्ग्यः । अत्र तु व्याख्यानद्वयेऽपि व्यवसितात्प्रतीपगमनाप्रियतम - गृहगमनाच्च निवर्तस्वेति पुनरपि वाच्य एव विश्रान्तेर्गुणीभूतव्यङ्ग्यभेदस्य प्रेयोरस- वदलङ्कारस्योदाहरणमिदं स्यात् , न ध्वनेः ।

 तेनायमत्र भावः-काचिद्रभसात्प्रियतममभिसरन्ती तद्गृहाभिमुखमागच्छता तेनैव हृ- दयवल्लभेनैवमुपश्लोक्यतेऽप्रत्यभिज्ञानच्छलेन, अत एवात्मप्रत्यभिज्ञापनार्थमेव नर्मवचनं

बालप्रिया

शब्दार्थमाह- -न केवलमित्यादि । निर्वृतिविघ्नमिति । विघ्नपदेनात्र निर्वृतिविघ्नो विवक्षित इति भावः । फलितमाह-तत इत्यादि । ततः सर्वेषामपि सुखविघ्नकर. णात् । अत एवेति । सुखलेशस्याप्यलाभादेवेत्यर्थः । हतेति । हता विषयालाभा- द्भग्ना आशा यस्याः सा । एवं वाच्यार्थं व्याख्याय व्यंग्यं दर्शयति-इतीत्यादि । इतीति हेतौ । उक्तेन वाच्यार्थेन हेतुनेत्यर्थः । वल्लभेति । त्वत्सदृशी नान्या काचि- दित्येवंरूपो यो वल्लभाभिप्रायः, तद्रूप इत्यर्थः ।

 प्रकारान्तरेण व्याचष्टे-यदि वेत्यादि । 'न केवलमात्मनो विघ्नं करोषि, यावदन्यासामपी'ति सम्बन्धः । आत्मनो विघ्नं करोषीत्यस्य विवरणम्- लाघवादित्यादि । अत एव अबहुमानास्पदत्वकरणादेव । सख्यभिप्राय इति । स च पूर्ववद्बोध्यः । प्रतीपगमनादिति । स्वगृहं प्रति गमनादित्यर्थः । विश्रान्ते- रिति । उक्तव्यंग्यस्येति शेषः । प्रेयोरसवदिति । प्रेयश्च रसवच्चानयोस्समाहारः प्रेयोरसवत्तदात्मकालङ्कारस्येत्यर्थः । भावस्य पराङ्गत्वे प्रेयोऽलङ्कारः । रसस्य तत्त्वे रसवदलङ्कारः । सखीवचनपक्षे सखीगताया नायिकाविषयकरतेर्भावरूपाया व्यंग्य- त्वात्तस्याश्चानुभावरूपतदुक्तार्थद्वारेण 'निवर्तस्वेति वाक्यार्थं प्रत्यङ्गत्वात्प्रेयोऽलङ्कार- त्वम् । नायकोक्तिपक्षे तूक्तरीत्या रसवदलङ्कारत्वमित्यर्थः । न ध्वनेरिति । तथा च प्रक्रमविरोध इति भावः ।

 तेनायमिति । अयं वक्ष्यमाणप्रकारः । उपश्लोक्यत इति । मुखेन्दुकान्ति- वर्णनादिरूपोपश्लोकनमानाभिप्राय कमेतदित्यर्थः । ननु गूढाभिसरणे नायिकायाः साक्षान्नायकेनोपश्लोकनमनुचितमित्यत्राह-अप्रत्यभिज्ञानच्छलेनेति । अप्रत्य-