पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
सटीकलोचनोपेतध्वन्यालोके


क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा---
दे आ पसि णिवत्तसु मुहससिजोह्लाविलुत्ततमणिवहे ।
अहिसारिआणँ विग्धं करोसि अण्णाणँ वि हआसे ॥


लोचनम्

त्वाभिमानेनैव त्वमत्र स्थितः, तत्सर्वथा शठोऽसीति गाढमन्युरूपोऽयं खण्डितनायिका- भिप्रायोऽत्र प्रतीयते । न चासौ व्रज्योभावरूपो निषेधः, नापि विध्यन्तरमेवान्य- निषेधाभावः ।

 दे इति निपातः प्रार्थनायाम् । आ इति तावच्छब्दार्थे । तेनायमर्थः-

प्रार्थये तावत्प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥

 अत्र व्यवसिताद्गमनान्निवर्तस्वेति प्रतीतेर्निषेधो वाच्यः । गृहागता नायिका गोत्र-

बालप्रिया

तमाह-तदित्यादि । सर्वथेति । तत्रैवासक्तत्वेन, उभयत्रापि वेत्यर्थः । अनुभयरूप- त्वं विवृणोति-न चेत्यादि।व्रज्याभावरूप इति । व्रज्या गमनम् । अन्यनिषेधा- भाव इति । व्रज्यापेक्षया अन्यो निषेधाभाव इत्यर्थः । तदात्मकं विध्यन्तरमिति सम्बन्धः । अभिप्रायरूपव्यंग्यस्य तदुभयरूपत्वाभावादिति भावः ॥

 'प्रार्थय' इत्यादौ निषेधवाचकस्य नञादेरप्रयोगादसङ्गतिमाशङ्क्याह-अत्रे- त्यादिना । निवर्तस्वेत्यनेन मा गम इत्यर्थस्योक्ततया गमननिषेधो वाच्य इति भावः । व्यंग्यबोधाङ्गतया वक्त्रादिविशेषं दर्शयति-गृहागतेत्यादि । 'अन्यासामपी'त्यपि-


 १. 'शठोऽयमेकत्र बद्धभावो यः । दर्शितवहिरनुरागो विप्रियमन्यत्र गूढमाचरति' (साहि. द., ३. ७६.) इति शठलक्षणं बोध्यम् ।

 २. 'पार्श्वमेति प्रियो यस्या अन्यसम्भोगचिह्नितः । सा खण्डितेति कथिता धीरैरीकिषायिता' ॥ (साहि. द., ३. ११७) इति खण्डितालक्षणं बोध्यम् ।

 ३. 'विध्यभावरूप' इत्यपि लोचनस्थः पाठः 'अनुभयरूप' इति परममूलेन सङ्गत एव। तस्य विध्यभावविध्यर्थकत्वात् । न चात्र विध्यभावः (बजनाभावः), विध्य- न्तरं वा व्यङग्यम् , अपि तु गाढमन्युरूपो नायिकाभिप्राय इति व्यङ्गयस्यानुभय- रूपत्वं सिद्धमिति दर्शितं 'न चे त्यादिग्रन्थेन ।

 ४. अथवा-अत्र निवर्ततेनिषेधार्थकतया निषेधज्ञानं प्रति प्रतियोगितावच्छेदक- विशिष्टप्रतियोगिज्ञानस्य कारणत्वादत्र च गाथायां तत्प्रतियोगिवाचकपदाभावात् विसं- ठुलतानिराकरणायाध्याहारेण प्रतियोगिनं दर्शयितुमाह-'व्यवसिताद्गमनादि'ति । अध्यवसितादिति वा पाठः । निश्चितादिति तदर्थः ।