पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

क्वाद्यनुभावशवलनोदितश्रृगाररसानुवेधः। रसस्यालौकिकत्वात्तावन्मात्रादेव चानवगमा- त्प्रथमं निर्विवादसिद्धविविक्तविधिनिषेधप्रदर्शनाभिप्रायेण चैतद्वस्तुध्वनेरुदाहरणं दत्तम् ।

 यस्तु ध्वनिव्याख्यानोद्यतस्तात्पर्यशक्तिमेव विवक्षासूचकत्वमेव वा ध्वननमवो- चत् , स नास्माकं हृदयमावर्जयति। यदाहुः-भिन्नरुचिर्हि लोकः' इति । तदेतदग्रे यथा- यथं प्रतनिष्याम इत्यास्तां तावत् । भ्रमेति । अतिसृष्टोऽसि प्राप्तस्ते भ्रमणकालः । धार्मिकेति। कुसुमाद्युपकरणार्थ युक्तं ते भ्रमणम् । विस्रब्ध इति शङ्काकारणवैकल्यात् । स इति यस्ते भयप्रकम्प्रामङ्गलतिकामकृत। अद्येति। दिष्टया वर्धस इत्यर्थः। मारित इति पुनरस्यानुत्थानम् । तेनेति । यः पूर्वं कर्णोपकर्णिकया त्वयाप्याकर्णितो गोदावरी. कच्छगहने प्रतिवसतीति । पूर्वमेव हि तद्रक्षायै तत्तयोपभावितोऽसौ ; स चाधुना तु

बालप्रिया

इत्यर्थः । सहृदयहृदयदर्पणमध्यास्त इत्यनुषङ्गः । विवेचनदशायामत्र भयानकविभा- वादयो न प्रतीयन्ते, अपि तु शृङ्गारसम्बन्धिन एवेति भावः । ननु यदि श्रृङ्गारध्व- निरत्राङ्गी, तर्हिं कुतस्तदुदाहरणत्वेनेयं गाथा नोक्ता ? वस्तुध्वन्युदाहरणतयोक्ता चेत्यत आह-रसस्येत्यादि । तावन्मात्रादेव उदाहरणमात्रादेव । अनवगमात् अव- गमासम्भवात् । वक्ष्यमाणयुक्तिभिरेव रसस्वरूपज्ञानसम्भवादिति भावः । तावन्मा- त्रादेवेत्यस्य लोकमात्रादेवेत्यर्थ इति केचित् । निर्विवादेति । निर्विवादसिद्धं विविक्तं विवेको भेदो ययोर्विधिनिषेधयोः । एतदुक्तं भवति–रसध्वनिर्हि काव्यात्म- त्वेन प्रतिपिपादयिषितः । स च प्रमाणेन केनापि न सिद्धो लोके, नाद्यापि काव्यव्या- पारविषयतया च । अतस्तत्प्रतिपादनार्थमारभमाणेन तदुपोद्धाततया प्रथमं वस्तुध्व- न्यादिकमन्यदेव वाच्याद्भिन्नत्वेन प्रदर्शनीयं, पश्चादविवादसिद्धे ध्वनिसामान्ये साक्षा- ल्लक्षणीयो रसध्वनिरुदाहुरणीय इति ।

 यस्त्वित्यादि । विवक्षायाः विवक्षितार्थस्य । सूचकत्वमनुमापकत्वम् । नावर्जयतीति । निर्युक्तिकत्वादिति भावः । नन्वेतद्वयातिरिक्तं नाद्यापि हृदयपथम- वतरतीत्यत्राह-तदेतदिति । यदुक्तमतिसर्गप्राप्तकालयो_यं लोडिति, तदनुरोधेन व्याचष्टे-भ्रमेत्यादि । स इत्यनुभूतार्थकमित्याह-यस्त इति । 'अद्येति पदं पूर्वं विधिः प्रतिकूलोऽभूदिदानीं तु भवद्भाग्यमहिम्नाऽनुकूलो जात इत्यर्थं द्योतयतीत्याह- दिष्टयेति । 'मारित' इत्यादेव्यंग्यं दर्शयति-मारित इतीत्यादिना । 'तेने ति पदम- प्यनुभूतार्थकमित्याह-यः पूर्वमिति । 'वसतीत्याकर्णित' इति सम्बन्धः । ननु स्वैरि- ण्या गोदावरीतीरे सिंहसद्भावस्स्वयमारोपितः। तत्कथमेवमुक्तमित्यतो व्याख्याता तदु- पपादयति–पूर्वमेवेत्यादि । तद्रक्षायै सङ्केतस्थानरक्षणार्थम् । तत्तयोपश्रावितो. ऽसाविति । तत् सिंहनिवासवृत्तम् । असौ धार्मिकः । सङ्केतस्थानरक्षणार्थमन्यापदे-


 २. रघुवं., ६, ३०.