पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
प्रथमोद्योतः


क्वचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा-
अता एत्थ णिमज्जइ एत्थ अहं दिअसरं पलोएहि ।
मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ॥


लोचनम्

दृप्तत्वात्ततो गहनान्निस्सरतीति प्रसिद्धगोदावरीतीरपरिसरानुसरणमपि तावत्कथाशेषी- भूतं का कथा तल्लतागहन प्रवेशशङ्कयेति भावः ।

 अत्ता इति ।

श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय ।
मा पथिक रात्र्यन्ध शय्यायामावयोः शयिष्टाः ॥

 मह इति निपातोऽनेकार्थवृत्तिरत्रावयोरित्यर्थे न तु ममेति । एवं हि विशेषवचनमेव शङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । कांचित्प्रोषितपतिका तरुणीमवलोक्य प्रवृद्धमदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाभ्युपगत इति निषेधाभावोऽत्र

बालप्रिया

शेन पूर्वं स्वैरिण्यैव वृत्तान्तोऽयं सख्यादिद्वारा धार्मिकस्य कर्णगोचरीकृत इत्यर्थः । नन्वेवं किमिति स्वयमुक्तमित्यत आह–स चाधुना त्विति । सः सिंहः । गहना- न्निस्सरतीति । इतीत्यनन्तरं तयाऽसावुपश्राव्यत इति शेषः । धार्मिकस्य शङ्का मा भूदिति 'गोदे त्याद्यनुवादपूर्वकं सिंहस्य दृप्तत्वादिविशेषो बोध्यत इति भावः । विशेष- बोधनस्य फलमाह-प्रसिद्धेत्यादि । इति भाव इति । बोध्यत इति शेषः। एते चार्थाः भ्रमणनिषेधव्यञ्जने सहकारिभूताः । एवमुपर्यपि बोध्यम् ।

 "णिमजइ” इत्यस्य छायां द्वेधा दर्शयति-शेत इत्यादि । अनेकार्थवृत्ति- रिति । बहुवचनान्त इत्यर्थः । एवं हि प्रच्छन्नाभ्युपगमो न स्यादिति सम्बन्धः । अत्र हेतुमाह-विशेषेति । शङ्केति । श्वश्रूवादिशङ्केत्यर्थः । प्रच्छन्नेति। प्रच्छ- न्नत्वाभावेऽभ्युपगमस्य न सहृदयचमत्कारकारितेति भावः । कांचिदित्यादि । तरुणीमाकारैः प्रोषितपतिकां चालोक्येत्यर्थः । 'सम्पन्न' इत्यनेनास्य सम्बन्धः । प्रवृद्धेति । दर्शनक्षणे मदनाङ्कुरो जातस्तदीयसौन्दर्यादेर्मुहुरवलोकनादिना स प्रवृद्धः। अनेन मा शयिष्ठा इत्युक्तेन । निषेध एव द्वारमुपायस्तेन । तया प्रोषितपतिकया।


 १. एत्थ णिमज्जइ अत्ता एत्थ अहं एत्थ परिअणो सअलो।

पन्थिअ रत्तीअन्धअ मा मह सअणे णिमज्जिहिसि ॥

छाया-(अत्र निमज्जति श्वश्रूरत्राहमत्र परिजनः सकलः ।

पथिक रात्र्यन्धक मा मम शयने निमञ्जयसि ॥ )

इति गाथासप्तशत्यनुमतः (गाथास., ७.६७.) पाठः ।