पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
प्रथमोद्योतः


लोचनम्

व्यङ्गयत्वमेव । प्रतिपत्तुरपि रसावेशो न नियतः, न ह्यसौ नियमेन भीरुधार्मिकसब्रह्म- चारी सहृदयः।

 अथ तद्विशेषोऽपि सहकारी कल्प्यते, तर्हि वक्तृप्रतिपत्तृप्रतिभाप्राणितो ध्वननव्या- पारः किं न सह्यते । किं च वस्तुध्वनि दूषयता रसध्वनिस्तदनुग्राहकः समर्थ्यत इति सुष्ठुतरां ध्वनिध्वंसोऽयम् । यदाह-क्रोधोऽपि देवस्य वरेण तुल्यः' इति । अथ रसस्यैवेयता प्राधान्यमुक्तम् ; तत्को न सहते । अथ वस्तुमात्रध्वनेरेतदुदाहरणं न युक्तमित्युच्यते, तथापि काव्योदाहरणत्वाद्द्वावप्यत्र ध्वनी स्तः, को दोषः ।

 यदि तु रसानुवेधेन विना न तुष्यति, तत् भयानकरसानुवेधो नात्र सहृदय हृद- यदर्पणमध्यास्ते; अपि तु उक्तनीत्या सम्भोगाभिलाषविभावसङ्केतस्थानोचितविशिष्टका-

बालप्रिया

त्यादि । फलितमाह-इतीति । यद्यस्ति प्रतिपत्तू रसाभिव्यक्तिः, तर्हि तयैवास्तु निषेधावगतिरित्यत्राह-प्रतिपत्तुरपीत्यादि । प्रतिपत्तुरपि सहृदयस्यापि । नियतः अविनाभूतः । उक्तमुपपादयति-न हीत्यादि । सब्रह्मचारी सदृशः । कस्यचिद्भयानकरसास्वादसम्भवेऽपि वीरादिप्रकृतेः प्रतिपत्तुस्तदसम्भवात् , भयानक- रसाभिव्यक्त्या निषेधप्रतीतिर्न भवतीति भावः ।

 शङ्कते-अथेति । तद्विशेषोऽपि प्रतिपत्तृविशेषोऽपि । विशेषो भीरुस्व- भावत्वम् । सहकारीति । भयानकरसाभिव्यक्ताविति शेषः। परिहरति-तर्ही- त्यादि । उक्तनयेनापसिद्धान्तापातादपि रसावेशकृता निषेधावगतिरिति वक्तुं न शक्यमित्युपहासमुखेनाह-किञ्चेत्यादि । दूषयतेति । भयानकविभावादीनभिद- धत्या तद्रसावेशशक्तिसहकारिण्या अभिधया अर्थादभिहित एवायं निषेध इत्यभिप्रायेण दूषयतेत्यर्थः । क्रोधोऽपीत्यादि । तदिहायातमिति शेषः । क्रोधो हि शापेन तुल्यः। अत्र तु वरेणेति भावः । शङ्कते-अथेति। रसस्य प्राधान्यमेव दर्शितं न तु वस्तु- ध्वनेर्दूषणमित्यर्थः । परिहरति-तदिति । तत् तर्हि । को न सहत इति । वस्तुध्वने रसध्वन्यङ्गत्वमिष्टमिति भावः । पुनरपि शङ्कते-अथेति । परिहरति-तथा- ऽपीति । ध्वनी स्तामिति । कामचाराभ्यनुज्ञाने लोट् । अत्र हेतु:-काव्येति ।

 ननु कामचाराभ्यनुज्ञानं न युक्तं, रसस्यैव सहृदयाह्लादकारित्वादित्यत आह- यदि त्वित्यादि। अनुवेधः आवेशः । तुष्यतीति । सहृदय इति शेषः । तुष्यते इति पाठे सहृदयेनेति शेषः । उक्तनीत्येति । कस्याश्चित् सङ्केतस्थानं जीवितसर्वस्वा- यमानमिति पूर्वोक्तरीत्येत्यर्थः । सम्भोगेति । सम्भोगाभिलाषस्य विभावः उद्दीपनविभावभूतं यत्सङ्केतस्थानं तस्य । तथा तस्यैवाभिलाषस्य उचिताः सम्भो- गानुगुण्याद्विशिष्टाश्च ये काक्वादयः अनुभावाः, आदिपदेन तात्कालिक्योऽन्याश्चेष्टा ग्राह्याः । तेषाञ्च शबलनात्संवलनादुदितोऽभिव्यक्तो यः शृङ्गाररसः, तस्यानुवेध