पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 यत्तु भट्टनायकेनोक्तम्-इह दृप्तसिंहादिपदप्रयोगे च धार्मिकपदप्रयोगे च भया- नकरसावेशकृतैव निषेधावगतिः तदीयभीरुवीरत्वप्रकृतिनियमावगममन्तरेणैकान्ततो निषेधावगत्यभावादिति तन्न केवलार्थसामर्थ्यनिषेधावगतेर्निमित्तमिति । तत्रोच्यते- केनोक्तमेतत् 'वक्तृप्रतिपत्तृविशेषावगमविरहेण शब्दगतध्वननव्यापारविरहेण च निषे. धावगतिः' इति । प्रतिपत्तृप्रतिभासहकारित्वं ह्यस्माभिर्द्योतनस्य प्राणत्वेनोक्तम् । भया. नकरसावेशश्च न निवार्यते, तस्य भयमात्रोत्पत्त्यभ्युपगमात् । प्रतिपत्तुश्च रसावेशो रसाभिव्यक्त्यैव । रसश्च व्यङ्गय एव, तस्य च शब्दवाच्यत्वं तेनापि नोपगतमिति

बालप्रिया

 यत्त्वित्यादि । उक्तिप्रकारमाह-इहेत्यादि । इह 'भ्रमेत्यादौ । भयानकरसा. वेशकृतैव निषेधावगतिरिति सन्बन्धः । कुत इत्यत आह-दृप्तेत्यादि । निमित्तरू- पार्थें सप्तम्यौ। श्वमारणनिमित्तभ्रमणविधिसिद्धं धार्मिकभीरुत्वं विना निषेधार्थो न सिध्यतीति धार्मिकेत्यायुक्तम् । तावन्मात्रेणापि गृहभ्रमणविधिरेवानुगृहीतो भवति, न प्रकृतनिषेध इत्यतो दृप्तसिंहादीति च । एवकारो भयानकरसावेशस्य निषेधा- वगतिजनने प्राधान्यं दर्शयति । ध्वननव्यापारेणैवास्तु निषेधावगतिः, किमित्येवं कल्प्यत इत्यत्राह-तदीयेत्यादि । तदीययोः धार्मिकसिंहसम्बन्धिनोः । भीरु- त्ववीरत्वरूपयोः प्रकृत्योः स्वभावयोः नियमस्याविनाभावस्यावगमं ज्ञानम् । अन्त- रेण विना । एकान्ततः कारणान्तरेण तन्नियमात् । ध्वननव्यापारमात्रेणेति यावत् । निषेधेति । भ्रमणनिषेधेत्यर्थः । फलितमाह-इतीत्यादि । इति तदिति । इत्यु- क्ताद्धेतोरित्यर्थः । अर्थसामर्थ्यस्यापि सहकारितया हेतुत्वानपायं केवलपदेन दर्शयति । 'इति यत्तु उक्तमिति सम्बन्धः । 'तन्न केवलेत्यादिकं श्रुत्वा तदसहमानो ध्वनिवाद्याह- केनेत्यादि । 'इत्येतत्केनोक्तमिति सम्बन्धः । यद्वा-एतदिति वक्तृप्रतीत्यादिसमास- घटकम् । एतस्य वाक्यस्य सम्बन्धिनौ एतौ वा यौ वक्तृप्रतिपत्तृविशेषौ सङ्केतस्थान- परिरक्षणोत्सुककामिनीभीरुधार्मिकौ; तयोरवगमस्य विरहेण अभावेन । विशेषपदेन वक्तृगतस्वैरिणीत्वादिकं प्रतिपत्तृगतप्रतिभादिकं च विवक्षितम् । ननु त्वयैवोक्तमित्या- त्राह-प्रतिपत्रिति । तदुक्तं कश्चिदंशमनुजानन विरुद्धमंशं निराकरोति-भया- नकेत्यादि । न निवार्यत इति । तस्यास्तित्वमानं न निषेधावगति प्रति हेतुत्व- मिति भावः । कथं वोद्धव्ये धार्मिके भयानकरसावेश इत्यत आह-तस्येत्यादि । तस्य भयानकरसावेशस्य । भयमात्रोत्पत्त्येति । प्रकृत्यादित्वात्तृतीया । तद्रू- पस्य तस्येत्यर्थः । मात्रपदेन रसत्वं व्युदस्यते। अभ्युपगमात् बोद्धव्ये स्वीका- रात् । तथैव किं सहृदयस्य नेत्याह--प्रतिपत्तरित्यादि । प्रतिपत्तुः सहृदयस्य तु रसोऽभिव्यज्यते, नोत्पद्यते । तदभिव्यक्त्या तदावेशश्च भवतीत्यर्थः । बोद्धव्यस्य भयमिव, सहृदयस्य रसोऽप्युत्पद्यतां किं तदभिव्यक्तिकल्पनयेत्यत आह-रसश्चे-