पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

क्षादिसहकृतस्य वा विकल्पकत्वव्यापारः । एवमभिहितोन्वयवादिनामियदनपह्रवनीयम्।

 योऽप्यन्विताभिधानवादी 'यत्परः शब्दः स शब्दार्थः' इति हृदये ग्रहीत्वा शर- वदभिधाव्यापारमेव दीर्घदीर्घमिच्छति, तस्य यदि दीर्घो व्यापारस्तदेकोऽसाविति कुतः ? भिन्नविषयत्वात् । अथानेकोऽसौ ? तद्विषयसहकारिभेदादसजातीय एव युक्तः । सजा- तीये च कार्ये विरम्यव्यापारः शब्दकर्मबुद्धयादीनां पदार्थविद्भिनिषिद्धः । असजातीये चास्मन्नय एव ।

बालप्रिया

परिग्रहः। विकल्पकत्वव्यापारः सविकल्पकज्ञानजनकत्वशक्तिः । शब्दो हि श्रोत्रादि- सहकारेण स्वप्रत्यक्षं जनयति । अथ च ज्ञायमानः संज्ञाशब्दः संशिनि चक्षुस्सन्निकर्षा- दिकाले स्वविशेषणकं संज्ञिप्रत्यक्षं जनयति इति मतविशेषः । इयदिति । अभिधादित्र- योत्तीर्णध्वनिव्यापारोऽस्तीत्येतावदित्यर्थः । अनपह्नवनीयमनिराकरणीयं, प्रत्युताभ्यु- पगन्तव्यमिति भावः ।

 योऽपीत्यादि। अपिशब्दस्तुशब्दार्थे । 'य इच्छति तस्येति सम्बन्धः। गामानयेत्या- दिकस्य तत्तद्वाक्यस्य तत्तद्वाक्यार्थे प्रथमं सङ्गतिग्रहः, पश्चादावापोद्वापाभ्यामन्वितस्वार्थे गवादिपदानां सङ्गतिग्रह इत्यादिरन्विताभिधानवादिमतप्रक्रियाऽन्यतोऽवधेया। यत्पर इति । योऽर्थः परः प्रधानप्रतिपाद्यः तात्पर्यविषयो यस्य सः शब्दार्थः शब्दाभिधेयः । शरवत् शरव्यापारतुल्यम् । इच्छतीति । यथोक्तम्-“सोऽयमिषोरिव दीर्घंदीर्घो व्यापार" इति । यथा धनुर्धरेण प्रेरितश्शरो वेगाख्येनैकेनैव व्यापारेण परस्य वर्मच्छेदनगात्रभेद- नादिका अनेकक्रियाः करोति, तथा सुकविना प्रयुक्तः शब्दोऽभिधाख्येनैकेनैव व्यापारेण पदार्थवाक्यार्थयोलक्ष्यत्वेन व्यङ्गयत्वेनाभिमतोश्च प्रतीतीर्जनयतीत्यर्थः । इत्थं तन्म- तमुपन्यस्य तेनापि ध्वननमङ्गीकारयितुं स दीर्घोऽभिधाव्यापारः किमेकः प्रतिविषय- मनेको वेति विकल्प्याद्यं प्रत्याचष्टे-तस्येत्यादि । अभिमत इति शेषः । 'व्यापारो दीर्घ- स्तस्याभिमतो यदीति सम्बन्धः । तत् तर्हि । असौ एक इति कुतः? एको भवितुं नार्हतीत्यर्थः । अत्र हेतुः-भिन्नेति । भिन्नाः विषयाः वाच्याद्यर्थाः यस्य तत्त्वात् । विषय- भेदे सति तत्सम्बन्धिव्यापारभेदोऽप्यावश्यक इति भावः। द्वितीयमनूद्यावद्यति-अथेत्या- दि। अथेति यदीत्यर्थे । तत् तर्हि । विषयेति। विषयाः वाच्यलक्ष्यव्यंग्यत्वेनाभिमता-


 १. सर्व एव शब्दा नेत्रादीन्द्रियसहकारेण स्वप्रकारकार्थविशेष्यकप्रत्यक्षादिकं जनयन्तीति सौगता मन्यन्ते । प्रमाणयन्ति चात्र-

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ इति ॥

 २. तौतातितमतानुयायिनामित्यर्थः । ३. प्राभाकार इत्यर्थः ।

 ४. काव्यप्र., p, २१३. (en, Anandasrama Press, Poona)