पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
प्रथमोद्योतः


लोचनम्

 अथ योऽसौ चतुर्थकक्षानिविष्टोऽर्थः, स एव झटिति वाक्येनाभिधीयत इत्येवंविधं दीर्घदीर्घत्वं विवक्षितम् , तर्हि तत्र सङ्केताकरणात्कथं साक्षात्प्रतिपत्तिः । निमित्तेषु सङ्केतः, नैमित्तिकस्त्वसावर्थस्संकेतानपेक्ष एवेति चेत्-पश्यत श्रोत्रियस्योक्तिकौशलम् । यो हासौ पर्यन्तकक्षाभाग्यर्थः प्रथमं प्रतीतिपथमवतीर्णः, तस्य पश्चात्तनाः पदार्थावगमाः

बालप्रिया

अर्थाः । सहकारिणः समयमुख्यार्थबाधादिवक्तृवैशिष्ट्यादयः । तेषां भेदात् । अस. जातीयः भिन्नजातीयः । सजातीयत्वेदोषप्रदर्शनेनोक्तमेव साधयति-सजातीय इत्या- दि । अनेकोऽसावित्यस्य विपरिणामेनानुषः । अनेकेऽस्मिन् व्यापारे सजातीये अङ्गी- क्रियमाणे सतीत्यर्थः । स पुनर्न प्रवर्तत इति शेषः । अत्र हेतुमाह-कार्य इत्यादि । कार्ये कार्य प्रति। पदार्थविद्भिः नैयायिकादिभिः । नन्वसजातीयोऽस्त्वित्यत्राह- असजातीय इत्यादि । अनेकेऽस्मिन्नसजातीये अङ्गीक्रियमाणे च सतीत्यर्थः । अस्मन्नय एवेति । व्यापारभेदसिद्धया ध्वननव्यापारसिद्धेरिति भावः। यद्वा सजा- तीय इत्यादेरयमर्थः-किंच व्यापारस्य यत्कार्यमनेकार्थज्ञानं तत्सजातीयमन्यद्वति विकल्पं मनसि निधायाह-सजातीय इत्यादि। सजातीये कार्ये तत्प्रति । व्या- पारः अभिधादिः । निषिद्ध इति। अतो व्यापारान्तरस्वीकारे चास्मन्नय एवेति भावः। असजातीय इति । कार्ये इत्यनुषज्यते । अस्मन्नय एवेति । कार्यस्य विजाती- यत्वे तत्कारणभूतव्यापारवैजात्यस्यावश्यकत्वात् ध्वननव्यापारसिद्धिरिति भावः ।

 अथ व्यापारस्य दीर्घत्वं नाम नैकत्वमेकजातीयत्वं वा ; किन्तु प्रतिपिपादयिषिता- र्थप्रतिपादनझाटित्यविशेष एव । अतो व्यंग्यस्याभिधाविषयत्वमस्त्येवेत्याशङ्कते- अथेत्यादि । अथ यदि । 'विवक्षितमथेति सम्बन्धः । चतुर्थेति । अन्त्येत्यर्थः । स एव सोऽपि । समाधत्ते-तर्हीत्यादि । तत्र अन्त्यकक्ष्यानिविष्टार्थे । साक्षादि- ति। अभिधयेत्यर्थः । कथमिति । भवतीति शेषः । न भवतीत्यर्थः । अथ पदा- र्थवाक्यार्थयोनिमित्तनैमित्तिकभावाभ्युपगमान्निमित्तभूतेषु पदार्थेषु सचेतग्रहणात्तन्मात्रे- णैव पृथगन्त्यवाक्यार्थविषयकसङ्केतानपेक्षया तद्वाक्यार्थप्रतीतिरभिधाव्यापारेण भवती- त्याशङ्कामुद्भाव्य व्युदस्यति-निमित्तेष्वित्यादि । निमित्तेषु पदार्थेषु । असावर्थः अन्त्यवाक्यार्थः। पश्यतेत्यादि परिहासवचनम् । 'इत्युक्तिकौशलमिति सम्बन्धः । पर्यन्तकक्ष्यायाः भागी भजनशीलः । पश्चात्तनाः वाक्यार्थप्रतीत्युत्तरकालभा-


 १. 'भजो ण्विः' (पा.सू.,३.२.६२.)इति ण्विप्रत्ययान्तः पर्यन्तकक्ष्याभाक्छब्दः। तथा च 'पर्यन्तकक्ष्याभागर्थः' इत्येव लोचनग्रन्थस्साधीयान् । 'भाग्यर्थः इति पाठस्तु ण्विप्रत्ययान्तेन न समर्थयितुं शक्यः, कुत्वाप्राप्तः । यदि तथैव पाठ इत्याग्रहः, तदा घनन्तादिना कथञ्चित्समर्थनीयः ।