पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
प्रथमोद्योतः


लोचनम्

ल्पपरम्परानुदयादभ्यस्तविषयव्याप्तिसमयस्मृतिक्रमवन्न संवेद्यत इति । निमित्तनैमि- त्तिकभावश्चावश्याश्रयणीयः, अन्यथा गौणलाक्षणिकयोर्मुख्याभेदः "श्रुतिलिङ्गादिप्रमा. णषट्कस्य पारदौर्बल्यम्' इत्यादिप्रक्रियाविघातः, निमित्ततावैचित्र्येणेवास्याः समर्थित- त्वात् । निमित्ततावैचित्र्ये चाभ्युपगते किमपरमस्मास्वसूयया । येऽप्यविभक्तं स्फोटं वाक्यं तदर्थ चाहुः, तैरप्यविद्यापदपतितैः सर्वेयमनुसरणीया प्रक्रिया । तदुत्तीर्ण- त्वे तु सर्वं परमेश्वराद्वयं ब्रह्मेत्यस्मच्छास्त्रकारेण न न विदितं तत्वालोकग्रन्थं विरच- यतेत्यास्ताम् ।

बालप्रिया

परम्पराया अनुदयादनुल्लेखादित्यर्थः । क्रमो हि हेतुहेतुमद्भावेनावस्थितयोर्धमः, तस्य ज्ञाने तयोर्ज्ञानमपेक्षितमिति भावः । अनुदये हेतुमाह-सातिशयेति । सातिशयं यदनुशीलनं पर्यालोचनं तस्याभ्यासात् पौनःपुन्यादित्यर्थः । क्रमस्य सत्त्वेऽप्यप्रति- पत्तौ दृष्टान्तमाह-अभ्यस्तेति । अभ्यस्तः भूयो भूयः पर्यालोचितो विषयो ययोस्ते। यद्वा-अभ्यस्ते विषये धूमादिहेतौ गवाद्यर्थे च ये व्याप्तिसमययोः वह्न्यादिसाध्यव्याप्ति- गवादिपदसङ्केतयोः स्मृती, तयोरनुमितिशाब्दबोधयोर्यः क्रमस्तद्वदित्यर्थः । इतीत्यादि। इतीति हेतौ। अतो हेतोरित्यर्थः । क्रमस्य निमित्तनैमित्तिकभावोपजीव्यत्वात्तस्य च साधितत्वादिति यावत् । निमित्तनैमित्तिकभावाश्रयणस्यावश्यकत्वं विपक्षे बाधकमुखे- नाह-अन्यथेत्यादि । 'अन्यथा इत्यादि प्रक्रियाविघात' इति सम्बन्धः । गौणेति । गौणलाक्षणिकार्थप्रतीतौ हि मुख्यार्थबाधानिमित्तं, ततश्च मुख्यार्थो मौलिकं निमित्तमि- त्यापतति । तदन्तरेण बाधाया मुख्यामुख्यनियमस्य चासिद्धरित्यर्थः । लौकिकी प्रक्रि. यामुक्त्वा वैदिकीमाह-श्रुतीत्यादि। श्रुत्यादिपदार्थास्तदुदाहरणानि चापोदेवीयादौ काव्य- प्रदीपादौ च ग्रन्थे प्रपञ्चितानि । निमित्तनैमित्तिकभावानाश्रयणे कथमुक्तप्रक्रियाविघात इत्यत आह–निमित्ततेति । निमित्ततायाः वैचित्र्येण भेदेन। अस्याः प्रक्रि- यायाः । समर्थितत्वादिति । एतन्निमित्ततावैचित्र्यञ्च अभिधाया दीर्घदीर्घत्वांगीकारे नोपपद्यत इति भावः । ननु तर्हि निमित्तनैमित्तिकभावोऽस्तु विचित्रो, येनायं प्रक्रिया- 'विघातो न स्यादित्यत्राह-निमित्ततेति । निमित्ततावैचित्र्यांगीकारे व्यापारभेदस्या- प्यङ्गीकर्तव्यतया किमस्मदुक्तावमर्ष इत्यर्थः । येऽपीति । स्फोटवादिनो वैयाकरणादय इत्यर्थः। अविद्येति । अविद्यापद व्यवहारमार्गः । अस्मच्छास्त्रकारेण आन- न्दवर्धनाचार्येण । न न विदितं विदितमेव । अत्र हेतुः-तत्त्वालोकग्रन्थं विरचयतेति ।


 १. 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षातूर (जै. सू., ३. ३. १४.) इत्यत्र शाबरभाष्यादौ विषयोऽयं द्रष्टव्यः।