पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

निमित्तभावं गच्छन्तीति नूनं मीमांसकस्य प्रपौत्रं प्रति नैमित्तिकत्वमभिमतम् ।

 अथोच्यते-पूर्वं तत्र सङ्केतग्रहणसंस्कृतस्य तथा प्रतिपत्तिर्भवतीत्यमुया वस्तु-. स्थित्या निमित्तत्वं पदार्थानाम् , तर्हि तदनुसरणोपयोगि न किञ्चिदप्युक्तं स्यात् । न चापि प्राक्पदार्थेषु सङ्केतग्रहणं वृत्तम् , अन्वितानामेव सर्वदा प्रयोगात् । आवापोद्वापा- भ्यां तथाभाव इति चेत्-सङ्केतः पदार्थमात्र एवेत्यभ्युपगमे पाश्चात्यैव विशेषप्रतीतिः ।

 अथोच्यते-दृष्टैव झटिति तात्पर्यप्रतिपत्तिः किमत्र कुर्म इति । तदिदं वयमपि न नाङ्गीकुर्मः । यद्वक्ष्यामः-

तद्वत्सचेतसां सोऽर्थो वाक्यार्थविमुखात्मनाम् ।
बुद्धौ तत्त्वावभासिन्यां झटित्येवावभासते ॥ इति ॥

 किं तु सातिशयानुशीलनाभ्यासात्तत्र सम्भाव्यमानोऽपि क्रमः सजातीयतद्विक-

बालप्रिया

विनः । पदार्थावगमाः पदार्थप्रतीतयः। प्रपौत्रं प्रतीत्यादि । प्रपौत्रं निमित्तमपे- क्ष्यात्मनो नैमित्तिकत्वमभिमतं स्यादित्यर्थः ।

 अथ पदार्थप्रतीतेः पश्चात्तनत्वेऽपि तद्विषयकसङ्केतग्रहणस्य पूर्वं जातत्वात्तद्वारकः पदार्थानां निमित्तत्वव्यपदेशो न विरुध्यते । उपलभ्यते हि गृहीतसङ्केतस्य प्रतिपत्तु- 'र्गङ्गायां घोष' इत्यादिवाक्यश्रवणानन्तरमेव झटिति शैत्यपावनत्वादिरूपपार्यन्तिकार्थ- प्रतीतिरित्याशङ्कामुद्भाव्य परिहरति-अथोच्यत इत्यादिना । तदनुसरणेति । तस्याः पार्यन्तिकार्थप्रतीतेः अनुसरणे स्वमतेन निर्वहणे यदुपयोगि । यद्वा-तद्- नुसरणे पदार्थानां पार्यन्तिकार्थप्रतीतिनिमित्तत्वानुसरणे। यदुपयोगि निमित्तम् । किंचिदपि उक्तं न स्यात् उक्तं न भवति । गृहीतसङ्केतस्याभिधया सङ्केतितपदार्था- वगमो भवेत् । पार्यन्तिकार्थस्यासङ्केतितस्य कथमवगमो भवेदिति भावः । किञ्च पूर्वं पदार्थेषु सङ्केतग्रहणमपि न घटत इत्याह-न चापीति । अन्वितानामेव अन्वि- तार्थबोधकानामेव । वाक्यत्वमापन्नानामेवेति यावत् । शङ्कते-आवापेत्यादि । तथाभावः पृथक् पृथक् पदार्थेषु सङ्केतग्रहणस्य भवनम् । परिहरति-सङ्केत इत्यादि । विशेषप्रतीतिः पाश्चात्यैवेति । वाक्यार्थप्रतीतिः पश्चात्तन्येव भवति, न पूर्वकालभवेत्यर्थः । तथा च भवत्सिद्धान्तो विरुध्येतेति भावः ।

 अथेत्यादि । तात्पर्यप्रतिपत्तिः पार्यन्तिकार्थप्रतीतिः। किमत्र कुर्म इति। पदा. र्थेषु सङ्केतग्रहणस्य निमित्तता भवतु मा वेति भावः। यद्येवं तर्हि सिद्धं नः समीहितमि- त्याह-तदित्यादि । विशेषमाह-किन्त्वित्यादि । तत्रेति । पार्यन्तिकार्थरूपव्यंग्या- र्थप्रतीतावित्यर्थः । सम्भाव्यमानोऽपि प्रमाणेन ज्ञायमानोऽपि । क्रमः पदार्थप्रतीतेः पौर्वापर्यम् । 'संवेद्यत' इति सम्बन्धः । अत्र हेतुमाह-सजातीयेत्यादि । सजाती- याः वाक्यार्थप्रतीत्यङ्गत्वेन सजातीयाः ये तद्विकल्पाः पदार्थविषयकप्रत्ययाः । तेषां