पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

रिक्तश्चतुर्थोऽसौ व्यापारो ध्वननद्योतनव्यञ्जनप्रत्यायनावगमनादिसोदरव्यपदेश निरूपि- तोऽभ्युपगन्तव्यः । यद्वक्ष्यति-

'मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ इति ॥

 तेन समयापेक्षा वाच्यावगमनशक्तिरभिधाशक्तिः । तदन्यथानुपपत्तिसहायार्था- ववोधनशक्तिस्तात्पर्यशक्तिः । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणाश- क्तिः। तच्छक्तित्रयोपजनितार्थावगममूलजाततत्प्रतिभासपवित्रितप्रतिपत्तृप्रतिभासहाया-

बालप्रिया

सोदराः पर्यायाश्च ये व्यपदेशाः शब्दाः तैः निरूपितो निश्चित इत्यर्थः। ध्वननादि- व्यपदेशः प्रसिद्धः । व्यपदेशश्च व्यपदेश्यं विना न तिष्टतीति तच्छ्रवणान्यथाऽनुपपत्ति- निरूपणीयोऽयमिति यावत् । अभ्युपगन्तव्यः अनिच्छद्भिरपीति शेषः । प्रयोजनांशे न लक्षणेत्यत्र मूलसम्मतिमाह-यद्वक्ष्यतीति ।

 एवं प्रयोजनविषयकं ध्वननव्यापारं प्रसाध्य तमेवेतरव्यापारत्रयाद्भेदेन स्पष्टयितुं व्यापाराणां स्वरूपं दर्शयति-तेनेत्यादि । समयापेक्षेति । तदर्थसङ्केतग्रहणसहकारेण तदर्थबोधनसामर्थ्यं पदनिष्ठमभिधा नाम शक्तिरित्यर्थः । सामर्थ्यं नाम शक्त्यपरपर्यायं पदार्थान्तरमिति बोध्यम् । तदन्यथेति । तस्या अभिधायाः, अन्यथा आत्मानं विना अनुपपत्तिरसम्भवः प्रयोजनाभावादिना सहायो यस्याः सा। केचित्तु तस्य विशेष- रूपस्यान्वितार्थस्य अन्यथा तात्पर्याभावे या अनुपपत्तिः, तत्सहायेति व्याचक्षते। अर्थे- ति । संसृष्टार्थेत्यर्थः । मुख्येति । मुख्यार्थबाधादित्रयं यत्सहकारि तदपेक्षत इति तथा । तच्छक्तीति । तत् पूर्वोक्तं यत् शक्तित्रयमभिधादिकं तेन, उपजनितः यदर्थानां पदार्थवाक्यार्थलक्ष्यार्थानामवगमः बोधः, तस्मादेव मूलाज्जाता, तत्प्रति- भासेन अभिधेयाद्यर्थानां निरन्तरप्रतीत्या पवित्रतस्य संस्कारलक्षणातिशयवत्तया


इति कारिकाव्याख्यानावसरे लोचन इति शेषः ।

 १. ध्वन्या., १.२०.

 २. वाक्यार्थबोधं प्रति तात्पर्यशक्तेः कारणतां व्यतिरेकेण द्रढयितुमाह-तदन्य- थेति । तदभावे ( कारणाभावे ) तदभावः ( कार्याभावः ) इति हि व्यतिरेकस्वरूपम् । तथा च तस्याः तात्पर्यशक्तः, अन्यथा प्रकारान्तरेण अर्थात्तात्पर्यशक्त्यभावे, अनुपप- त्तिः वाक्यार्थबोधाभावः, सहायः कारणत्वकल्पने मूलं यस्यास्सेत्यर्थः ।

 ३. अर्थेति । अर्थपदेनात्रादग्धदहनन्यायेनान्वयरूपार्थ एव विवक्षित इति ध्येयम् ।

 ४. अभिधादिशक्तित्रयप्रयोज्यार्थावबोधस्य ध्वननव्यापार प्रति सहकारिता 'जाता' न्तग्रन्थेन दर्शयित्वा, ध्वन्यमानार्थबोधः सहृदयस्यैव भवतीति सूचयितुं प्रतिपत्तृविशे- षणमाह-तत्प्रतिभासपवित्रितेति । तस्य ध्वन्यमानार्थस्य यः प्रतिभासः काव्यादौ पुनः पुनरनुसन्धानं, तेन पवित्रितः तदाहितसंस्कारातिशयविशिष्टेत्यर्थः । सहृदय इति