पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
प्रथमोद्योतः


लोचनम्

योगात् , नियमाप्रतिपत्तेर्वक्तुरेतद्विवक्षितमित्यध्यवसायाभावप्रसाच्चेत्यस्ति तावदत्र शब्दस्यैव व्यापारः । व्यापारश्च नाभिधात्मा, समयाभावात् । न तात्पर्यात्मा, तस्या- न्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा, उक्तादेव हेतोः स्खलद्गतित्वाभावात् । तत्रा- पि हि स्खलद्गतित्वे पुनर्मुख्यार्थबाधा निमित्तं प्रयोजनमित्यनवस्था स्यात् । अत एवं यत्केनचिल्लक्षितलक्षणेति नाम कृतं तव्यसनमात्रम् । तस्मादभिधातात्पर्यलक्षणाव्यति.

बालप्रिया

दिप्रयोजनज्ञानं 'स्मृतिर्न चे'त्यन्वयः । न च स्मृतिप्रतिपन्नमेतदित्यर्थः। अत्र हेतुमाह- अननुभूते तदयोगादिति । ननु तत्स्मृतिः कथश्चित्सम्पाद्येत्यतो हेत्वन्तरमाह- नियमेत्यादि । नियामकस्य कस्यचिदनुपलंभादेतदेव प्रयोजनमत्र विवक्षितमित्यनि- श्चयप्रसंगाचेत्यर्थः । व्यञ्जनव्यापारोपगमे तु सहकारिविशेषान्नियमः सेत्स्यतीति भावः । निगमयति-इतीत्यादि । इतीति हेतौ । यत एवं नान्यगम्यं प्रयोजनं तत इत्यर्थः । अत्रेति । पावनत्वादौ प्रयोजन इत्यर्थः। अथ व्यञ्जनव्यापारस्य पारिशेष्या. त्सिद्धि दर्शयितुमाह-व्यापारश्चेत्यादि । अत्रेत्यस्यानुषङ्गः । समयाभावात् गङ्गा- दिशब्दस्य पावनत्वादौ सङ्केताभावात् । अन्वयप्रतीताविति । प्राथमिकवाच्यार्थान्व- यबोध इत्यर्थः । उक्तादेवेत्यादि । पूर्वोक्तो हेतुर्मुख्यार्थबाधादिः, तस्माद्यत् स्खलद्ग- तित्वं स्खलन्ती प्रतिहन्यमाना गतिरवबोधनव्यापारो यस्य शब्दस्य तस्य भावस्त- त्वम् । स्वार्थाभ्रंश इति यावत् । तस्याभावादित्यर्थः । गङ्गादिशब्दानां हि मुख्यार्थ- बाधादिवशात्तीरादाववगमयितव्ये स्वार्थात्स्रोताविशेषादेर्यथा भ्रंशः, तथा प्रयोजने पावनत्वादाववगमयितव्ये स्वार्थात्तीरादेभ्रंशो नास्ति, यतस्तस्मादित्यर्थः । यद्वा- उक्तादेव हेतारिति । नियमाप्रतिपत्तेरित्यादिपूर्वोक्ताद्धेतोरित्यर्थः । हेत्वन्तरं चाह- स्खलद्गतित्वाभावादिति । अस्यार्थः पूर्ववद्बोध्यः । अभ्युपगम्यापि दोषमाह- तत्रापीत्यादि । प्रयोजनं निमित्तीकृत्यापि लक्ष्यार्थात् स्खलद्गतित्वेऽझोक्रियमाणे पुनः पुनरपि लक्षणामूलपरिकल्पनया लक्षणानवस्था स्यादित्यर्थः। व्यापारश्च नाभिधात्मे- त्यायेतदन्तग्रन्थस्य विवरणरूपः-"नाभिधा, समयाभावादि" त्यादिकाव्यप्रकाशग्रन्थ इति द्रष्टव्यम् । गङ्गादिशब्देन तीरादौ लक्षिते पुनः पावनत्वादिप्रयोजनमपि लक्ष्येत । अत एव तल्लक्षणायाः लक्षितलक्षणेति नामेति केचित् । तन्मतं निराकरोति-अत एवेत्यादि । अतएव अनवस्थादिदोषादेव । नाम कृतमिति । प्रयोजनविषयव्यापारस्येति शेषः । व्यसनमात्र ध्वनिनिराकरणनिर्बन्धमात्रं तहेतुकमिति यावत् । वक्ष्यते च "तेनायं लक्षितलक्षणाया न विषयः" इति । तस्मादित्यादि । ध्वननेति । ध्वननादिरूपाः


इत्यभियुक्तोक्त्या निर्देश्यस्य पावनत्वादिज्ञानस्य नपुंसकत्वेऽपि प्रतिनिर्देश्यस्मृत्य- पेक्षया इयमिति स्त्रीलिङ्गनिर्देशस्समीचीन एवेति विभाव्यम् ।

 १. काव्यप्र., २.६५ २. 'मुख्यां वृत्तिं परित्यज्य (ध्वन्या., १. २०)