पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
प्रथमोद्योतः


लोचनम्

र्थद्योतनशक्तिर्ध्वननव्यापारः; स च प्राग्वृत्तं व्यापारत्रयं न्यक्कुर्वन्प्रधानभूतः काव्या- त्मेत्याशयेन निषेधप्रमुखतया च प्रयोजनविषयोऽपि निषेधविषय इत्युक्तम् । अभ्युपग- ममात्रेण चैतदुक्तम् ; न त्वत्र लक्षणा, अत्यन्ततिरस्कारान्यसंक्रमणयोरभावात् । न ह्य- र्थशक्तिमूलेऽस्या व्यापारः। सहकारिभेदाच्च शक्तिभेदः स्पष्ट एव, यथा तस्यैव शब्दस्य व्याप्तिस्मृत्यादिसहकृतस्य विवक्षावगतावनुमापकत्वव्यापारः ।अ-

बालप्रिया

सम्पादितस्य प्रतिपत्तुर्या प्रतिभा तत्सहाया । अर्थद्योतनशक्तिः प्रयोजनादि- लक्षणस्यार्थस्य व्यञ्जने सामर्थ्यम् । इत्युक्तं भवतीति शेषः। अस्त्वेवंभूतोऽसौ ; कथमस्यैव काव्यात्मत्वमित्यत आह–स चेति। चकारोऽवधारणे। 'स च काव्यात्मेति सम्बन्धः । अत्र हेतुः-प्रधानभूत इति । तत्र हेतुः-प्राग्वृत्तमित्यादि । अभिधादित्रयमपेक्ष्य स्वयं प्रवृत्तोऽपि तदुपसर्जनीकुर्वन्नित्यर्थः । व्यङ्ग्यस्य काव्यात्मत्वाद्वयञ्जनस्यापि तत्त्वं बोध्यम् । नन्वेतावता 'भ्रम धार्मिकेत्यादौ भ्रमणनिषेधो लक्षणाविषयः, तदन्यप्रयोजन- विषयकश्च व्यञ्जनाव्यापार इत्यायातम् । तथाच कथं वृत्तिकृता 'प्रतिषेधरूप' इति वदता व्यञ्जनाव्यापारस्य निषेधविषयकत्वमुक्तमित्यत आह-इत्याशयेनेत्यादि । इत्याशयेन उक्ताभिप्रायेण 'प्रयोजनविषयोऽपि सः निषेधप्रमुखतया निषेधविषय इत्युक्तमिति सम्ब- न्धः । प्रयोजनं विषयो यस्य सः । प्रयोजनं चात्र स्वैरिण्याः सङ्केतस्थानपरित्राण- स्वच्छन्दविहरणादिकम् । निषेधप्रमुखतया निषेधप्रतीतिद्वारकत्वेन । इत्युक्तमिति । कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूप इत्यनेन प्रदर्शितमित्यर्थः । भ्रमणनिषेधोऽत्र लक्ष्य एव । प्रयोजनस्योक्तस्य निषेधप्रतीतिपूर्वकप्रतीतिविषयत्वान्निषेधरूपतया उक्तिरित्यर्थः । वस्तुतोऽत्र लक्षणा न प्रवर्तत इति वृत्तिग्रन्थानुगुण्येनाह-अम्युपगमेत्यादि । अभ्युपगममात्रेण प्रौढिवादमात्रेण । इदं विपरीतलक्षणया निषेधबोधनम् । अत्र लक्षणाया अप्रवृत्तौ हेतुमाह-अत्यन्तेति । यत्र वाच्यस्यात्यन्ततिरस्कारोऽन्यसङ्क्रमणं वा तत्र हि लक्षणा । न चात्र भ्रमणविधिरूपस्य वाच्यस्योभयं तस्मादित्यर्थः । नन्वत्रार्थ- शक्तिमूलो ध्वनिरेवास्तु ; तत्रापि किं न लक्षणेत्यत आह-न हीति । अर्थशक्तिमूल इति हेतुगर्भम् । ध्वनाविति शेषः। अस्या व्यापारः लक्षणायाः प्रवृत्तिः । किंचार्थ- शक्तिमूलध्वननव्यापारस्य वक्तृबोद्धव्यवैशिष्ट्यादिकं सहकारि, लक्षणायास्तु मुख्यार्थे- बाधादिकमतोऽप्यनयोर्भेद इत्याह-सहकारीति। उक्तमर्थं दृष्टान्तेन विशदयति-यथे- त्यादि । तस्यैव अर्थबोधनाय प्रयुक्तस्यैव । शब्दस्य गामानयेत्यादिशब्दस्य । स्मृत्यादीत्यादिपदेन पक्षधर्मताज्ञानपरिग्रहः । अनुमापकत्वव्यापारः अनुमाप- कत्वशक्तिः । अयं वक्ता एतद्विवक्षुः एतच्छब्दप्रयोगात् इत्यादिः प्रयोगोऽन बोध्यः । उक्तं चैतत्तृतीयोद्योते। अक्षादीति । अक्षं चक्षुरादीन्द्रियम् । आदिपदेन तत्सन्निकर्षादि-


यावत् । तत्त्वञ्च व्यङ्यार्थबोधप्रयोजकतावच्छेदकविलक्षणधर्मवत्त्वमिति भावः ।