पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८१ काव्यमाला।

इतस्ततः कज्जलकोमला दधौ पुरो भ्रमन्ती भ्रमराङ्गनावलिः । जगज्जिगीषोर्वियमेषुभूभुजः कराप्रवल्गनिशितासिविभ्रमम् ॥ ३० ॥ विजित्य बाणैर्मदनस्य कुर्वतः समस्तमेकातपवारणं जगत् । अभङ्गुरा षट्पदबन्दिनो वने जगुस्तदानीं बिरुदावलीमिव ॥ ३१ ॥ परागपुञ्जा यदि पुष्पजा अमी न पासुतल्पा स्मरमत्तदन्तिन । अलिच्छलात्पान्थवधाय धावत कथं तदन्तस्त्रुटिताङ्घ्रि शृङ्खला ॥३२॥ ददत्प्रवालौष्ठमुपात्तयौवनो मधु. प्रसूनाशुककर्षणोत्सुक. । लतावधूनामिह संगमे जनैरदर्शि कूजन्निव कोकिलस्वनैः ॥ ३३ ॥ शिखण्डिना ताण्डवमत्र वीक्षितुं तवास्ति चेच्चेतसि तन्वि कौतुकम् । समाल्यमुद्दामनितम्बचुम्बिन सुकेशि तत्सवृणु केशसंचयम् ॥ ३४ ॥ जलेषु ते वक्रसरोजनिर्जितो जनै स्फुटच्चारुसरोरुहाकर । अदर्शि सबीड इवोदरे क्षिपन्कृपाणपुत्रीमिव षट्पदावलिम् ॥ ३५ ॥ सविभ्रम वीक्ष्य तवेक्षणद्वय गत च वाचालितरत्ननूपुरम् । महोत्पलैर्वारि निमीलित दिवि हियेव हसैश्च पलायित जवात् ॥३६ ।। यदि स्फुरिष्यन्ति तवाधरद्युते पुर कियत्कालमशोकपल्लवा' । तदाधिगत्यान्तरमुद्यतत्रपा ध्रुव गमिष्यन्ति विवर्णताममी ॥ ३७॥ भव क्षण चण्डि वियोगिनीजने दयालुरुन्मुद्रय सुन्दरी गिरम् । अमी हताशाः प्रथयन्तु मूकता कृतान्तदृता इव लक्षिताः पिकाः ॥३८॥ उदीरयन्नित्यमृतप्रपा गिर विचित्रचाटूक्तिविचक्षणः क्षणात् । प्रसर्पदानन्दतिरोहितक्रुध चकार कश्चित्तरुणो मनस्विनीम् ॥ ३९ ॥ (कुलकम्) अगोचर चण्डरुचेरपि द्युता निकुञ्जलीलासदनेषु पुञ्जितम् । प्रभाभिरुद्भासितवीरुषस्तमो विनिन्यिरे भग्नमग्नदीपिका ॥ ४०॥ परिभ्रमन्त्य कुसुमोच्चिचीषया विरेजिरे तत्र सरोजलोचना । जिनेन्द्रमभ्यर्चयितु सपर्यया कृतप्रयत्ना वनदेवता इव ॥ ४१ ॥ उदग्रशाखाकुसुमार्घमुद्भुजा व्युदस्य पार्ष्णिद्वयमञ्चितोदरी । नितम्बभूस्रस्तदुकूलबन्धना नितम्बिनी कस्य चकार नोत्सवम् ॥४२॥