पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ सर्गः धर्मशर्माभ्युदयम् ।

करै प्रवालान्कुसुमानि लोचनैर्नखाशुभिस्तत्र विजित्य मञ्जरी । बधूजनस्यास्य जिघृक्षतो भयात्किलाचकम्पे पवनाहतं वनम् ॥ १३ ॥ प्रमत्तकान्ताकरसंगमादमी सदागमाभ्यासरसोज्ज्वला अपि । क्षणान्निपेतुः सुमनोगणा यतो ह्रियेव विच्छायमभूत्ततो वनम् ॥३४॥ किमन्यदन्ये पिकपञ्चमादयो यशासि पुण्यैरलभन्त सेवकाः । समर्प्यते कार्यमनङ्गभूपतेः पुनस्तदेकेन वसन्तशाखिना ॥ ४५ ॥ इतीव काचिन्नवचूतमञ्जरीं प्रियस्य वश्यौषधिमाददे मुदा । स्वमेव तद्दर्शनमात्रकर्मणा विवेद मुग्धा न वशीकृतं पुरा || ४६ ॥ (युग्मम्) लताग्रदोलाञ्चनलीलया मुहुर्नतोन्नतस्फारनितम्बमण्डला । श्रमं प्रचक्रे पुरुषायितक्रियाप्रकर्षहेतोरिव कापि कामिनी ॥ ४७ ॥ स्वमूनि चूडामणिरश्मिकार्मुके निवेशयन्ती नवनीपगोलकम् । पिकाय मर्मव्यथकाय कानने निबद्धलक्ष्येव वधूरलक्ष्यत ॥ ४८ ॥ कयाचिदुज्जृम्भितचारुचम्पकप्रसूनमाला जगृहे न पाणिना । स्मरान्तकग्रस्तवियोगिनीच्युता विडम्बयन्ती कलधौतमेखलाम् ॥४९॥ उदग्रशाखाञ्चनचञ्चलाङ्गुलेः भूजस्य मूल स्पृशति प्रिये छलात् । स्मित वधूनामिव वीक्ष्य सत्रपैरमुच्यतात्मा कुसुमैर्दुमाग्रत ॥ ५० ॥ मिथ प्रदत्तैर्नवपुष्पदामभिर्बभुस्तदानी मिथुनानि सर्वत । अवन्ध्यपातप्रसरै प्रकोपतश्चितानि बाणैरिव पुष्पधन्वना ॥ ५१ ।। विपक्षनामापि कुरङ्गचक्षुषा बभूव मन्त्रो ध्रुवमाभिचारिकः । प्रियैस्तदुच्चारणपूर्वमर्पिता प्रसूनमाला यदियाय वज्रताम् ।। ५२ ॥ रतावसाने लतिकागृहाद्वधूर्विनियंती खिन्नकपोलमण्डला । प्रवीजयन्ति स्म समीरणेरितैः प्रवाललीलाव्यजनैर्महीरुहाः ॥ ५३ ।। स्रजो विचित्रा हृदि जीवितेश्वरैः समाहिताश्चारुचकोरचक्षुषाम् । तदन्तरेऽन्तर्विशतो मनोभुवश्चकासिरे वन्दनमालिका इव ॥ १४ ।।१ आनण.