पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ सर्गः धर्मशर्माभ्युदयम् ।

ध्रुवं वियोगे कुसुमेषुमार्गणैस्तवापि भिन्नं हृदयं विभाव्यते । अमी समुल्लासितसारसौरभाः स्फुरन्ति निःश्वाससमीरणाः कुतः ॥ १८॥ तदस्तु सधिर्युवयो प्रसीद नः प्रतप्तयोरायसपिण्डयोरिव । सखीभिरित्थ गदितानुकूलयांचकार कान्तं किल कापि कामिनी ॥१९॥ (कुलकम्) विभिद्य मानं कलकोकिलखने मनोनुरागं मिथुनेषु तन्वति । कुतूहलादेव स केवलं तदा धनुर्धनीते स्म जगजयी स्मरः ॥२०॥ त्रिनेत्रसङ्ग्रामभरे पलायितः स्मरस्य विश्वासपदं कथं मधुः । उमार्पितप्रत्यय एष मन्यते विलासिनीर्जीवितदानपण्डिता॥ २१॥ विवर्णता लोकबहि स्थिति पिका मधु प्रभुद्रोहिणमाश्रिता ययु । नतभ्रुवां पादयुगस्य पङ्कज समाश्रितच्छायमभूत्पदं श्रियः ॥ २२ ॥ तरुन्निषगानिव बिभ्रतामुना स्मरस्य पौष्पाः कति नार्पिता: शराः । परं तथाप्येष जगज्जये वधूकटाक्षमेवेषुममन्यत क्षमन् ॥ २३ ॥ वसन्तलीलामलयानिलादिभिः सम मनोभू समयेन युज्यते । निरन्तर तस्य समम्तदिग्जये सहायभाव सुदृशो वितन्वते ॥ २४ ॥ इति प्रसङ्गादुपलालिता प्रिय स्वशक्तिमाकर्ण्य मधुप्रधर्षिणीम् । स्वरूपगर्वोद्धुरकधरा स्खलत्पदप्रचारं पथि जग्मुरङ्गनाः ॥ २५ ॥ (कुलकम्) प्रभोदयाह्लादितलोकलोचनो विलासिनीभिः परिवारितस्तत । शशीव ताराभिरलंकृतो घनं वनं विवेशोत्तरकोशलेश्वरः ॥ २६ ॥ गिरीशलीलावनमित्युपश्रुतेभ्रमन्निह प्लोषमयादिव स्मर । न कान्तिपीयूषनिधानकुम्भयोर्मुमोच कान्ताकुचयोरुपान्तिकम् ॥२७॥ ध्रुवं त्रिनेत्रानलदाहत‌‌ प्रभृत्युदर्चिषि द्वेषमुपागतः स्मर । यदत्र सान्द्रद्रुमदीर्घदुर्दिने बने निवासैकरसो बभूव सः ॥ २८ ॥ इहाबभौ मारुतधूतकेतकीपरागपासुप्रकरः समन्ततः । अनङ्गदावानलमीलितात्मना वियोगमाजामिव भस्मसंचयः॥ २९ ॥