पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११ सर्ग.] धर्मशर्माभ्युदयम् । ७९ इति विशङ्कय मधोर्वनवासिनः प्रहरतः परितोऽपि पराभवम् । प्रणयिनीकुचकचकमुच्चकैरुरसि कोरसिको न दधे जन.॥२२॥(कुलकम्) प्रचलवेणिलताञ्चलताडितोन्नतनितम्बतटस्तरुणीजनः । स्मरनिषादकशाभिरिवाहतश्चिरमतोऽरमतोद्धुरदोलया ॥ २३ ॥ स्मरवशीकरणौषधचूर्णवन्निदधतोपरि सौमनसं रजः । किमपरं मधुना वशिनोऽपि ते मुनिजना निजनामवशीकृता ॥ २४ ॥ स्वयमगाद्वसतिं कलिमत्यजदृशमदत्त मुखे प्रियकामिनाम् । इति बहूनि चकार वधूजन स किल कोकिलकोविदशिक्षया ॥२५॥ मधुनिवृत्तिजुषा शुचिसगमाद्धृतमुदामिव काननसपदाम् । विचकिलप्रसवावलिरन्वगादिह सिता हसितानुकृति मुखे ॥ २६ ॥ सकलदिग्विजये वरमल्लिकाकुसुमसंगतभृगरवच्छलात् । इह निनाय जन स्मरभूपतेर्न न वशं नवशङ्खभवो ध्वनि ॥२७॥ युवतिदृष्टिरिवासवपाटला स्मरनृपस्य बभौ नवपाटला । प्रणदिता मधुपैरिव काहला प्रियतमायतमानपराजये ॥ २८ ॥ वपुषि चन्दनमुज्ज्वलमल्लिका शिरसि हारलता गलकन्दले । मृगदृशामिति वेषविधिर्नृणामनवमो नवमोहमजीजनत् ॥ २९ ॥ इह तृषातुरमर्थिनमागत विगलिताशमवेक्ष्य मुहुर्मुहु । हृदयभूस्त्रपयेव भिदा गता गतरसा तरसा सरसी शुचौ ॥ ३० ॥ इह शुना रसना वदनाबहिर्निरगमन्नवपल्लव चञ्चलाः । हृदि स्वरांशुकरप्रकरार्पिता किमकृशा नु कृशानुशिखा' शुचौ ॥३१॥ खल इव द्विजराजमपि क्षिपन्दलितमित्रगुणो नवकन्दल । अजनि कामकुतूहलिना पुना रसमय समयः स धनागम ॥ ३२ ॥ इह घनैर्मलिनैरपहस्तिता कुटजपुष्पमिषादुडुसतति । गिरिवने भ्रमरारवपूत्कृतैरवततार ततारतिरम्बरात् ॥ ३३ ॥ १ वाद्यविशेष २ चन्द्रम्, (पक्षे) ब्राह्मणश्रेष्ठम् ३ सूर्य , (पक्षे) मुहृत् कुर , (पक्षे) कलह ५ तिरस्कृता ६ प्रसूतखेदा ४ अ