पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कलविराजिविराजितकानने नवरसालरसालसषट्पदः । सुरभिकेसरकेसरशोभितः प्रविसिसार स सारबलो मधुः ॥ १० ॥ अहह निर्दहति स्म वियोगिनां सुभगमगमनङ्गहुताशनः । मुहुरुदीरितरोचिरय चलत्कमलया मलयानिललीलया ॥ ११ ॥ तदभिधानपदैरिव षट्पदै. शवलिताम्रतरोरिह मञ्जरी। कनकमल्लिरिव स्मरधन्विनो जनमदारमदारयदञ्जसा ॥ १२ ॥ समधिरुह्य शिर कुसुमच्छलादयमशोकतरोर्मदनानलः । पथि दिधक्षुरिवैक्षत सर्वत समवधूतवधूतरसोऽध्वगान् ॥ १३ ॥ युवतिदीर्घकटाक्षनिरीक्षित पुलकितस्तिलक. कुसुमच्छलात् । अकृत लास्यमिवास्य जगत्पतेरुपवने पवनेरितपल्लव ॥ १४ ॥ शशिमुखीवदनासवलालसे बकुलभूरुहि पुष्पसमाकुले । धृतिमधत्त परा मधुपावलि किमसमा न समानगुणे रतिः ॥ १५ ॥ उचितमाप पलाश इति ध्वनि द्रुमपिशाचपति' कथमन्यथा । अजनि पुष्पपदादद्दलिताध्वगो नृगलजङ्गलजम्भरसोन्मुख (१) ॥१६॥ गहनकुञ्जलतान्तरितक्रमा सहचरी निभृत. प्रतिपालयन् । विधुरितोऽपि पपौ स पिपासया कुसुमलीनमली न मधु क्षणम् ॥१७॥ रसविलासविशेषविदो नरा कथममी विलय न ययुः क्षणात् । विकसितास्तरवोऽपि विचेतना मृगदृशोऽहं दशोर्व्यतिषङ्गत ॥ १८ ॥ मलयमारुतचूतपिकध्वनिप्रभृतिसायकसंचयमर्पयन् । मधुरसौ विदधे स्मरधन्विनं कमपि नाकिपिनाकिजयोर्जितम् ।। १९ ॥ श्वसिति रोदिति मुह्यति कम्पते स्खलति ताम्यति यत्सहसाध्वगः । तदयमक्षतपक्षशिलीमुखैः किमधुना मधुना हृदि नाहतः ॥ २० ॥ विनिहतोऽयमनाथवधूजनो विधुरिता धुरि ता मुनिपङ्कयः । सुरभिणा समभेदि नतभ्रुवामिह स मानसमानमतङ्गजः ॥ २१ ॥ १ कोकिल . २. वृक्षविशेष ३ प्रकटितज्याल. ४ स्त्रीरहित जनमदारयत् ५ अगणितवधूकोपान् ६. समोधनम्