पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। धन्यस्त्व गुणपण्यानामापणस्त्वं महीपते । त्वमेव सश्रय. श्रीणा सरितामिव सागरः ॥ ६३ ॥ त्वत्कीर्तिजदुकन्याया इतो लोकत्रयातिथे । अन्त. प्रपत्स्यते राजव्राजहंसश्रिय शशी ॥६४।। न पर क्षत्रिया सर्वे त्वामनु त्रिदिवेश्वरा । नह्युदात्तस्य माहात्म्य लड्घयन्तीतरे स्वरा ॥ ६५ ।। क्षोदीयानहमस्मीति मात्मानमवजीगण । भवितासि त्वमचिराज्जगत्रयगुरोर्गुरु ॥ ६६ ।। गुणैर्घनोन्नते नून भवदावाग्निदीपित । त्वज्जन्मना जन शान्तिमभृतेनायमेष्यति ।। ६७ । या चैषा भवत पत्नी सुव्रता सुव्रताख्यया । हेपयिष्यति सा वेला रत्नकुक्षितयोदधे. ॥ ६८ ।। संसारसारसर्वस्व भूत्रयस्यापि भूषणम् । इदमेनोविषच्छेदि स्त्रीरत्नमिति बुध्यताम् ॥ ६९ ।। क्षुद्रतेज मवित्रीभि. स्त्रीभिदिग्भिग्विात्र किम् । धन्येय या जगञ्चक्षुर्द्योभि प्राचीव धास्यति ॥ ७० ॥ ,ण्मासादूर्ध्वमेतस्या सरस्या प्रतिमेन्दुवत् । चतुर्दशाधिको गर्भे दिवस्तीर्थकृदेष्यति ॥ ७१ ।। कृतार्थाविति मन्येथामात्मानौ तद्युवामिह । नह्यन्यो भविना लाभ सुतादेवविधात्पर ॥ ७२ ॥ जन्म वा जीवितव्य वा गृहमेधाथवा द्वयो । आ कल्प युवयोरेव यास्यति श्लाध्यतामित. ॥ ७३ ॥ इत्थ ग्रन्थिमिव प्रमथ्य कृतिना तेनोरुचिन्ताभर वागर्थाविव तौ प्रसादमधिक त प्रापितौ दपती । अन्तर्गूढगभीरभावपिशुन यं भावयन्तश्चिरा- जातास्ते प्रमदेन पीनपुलकप्रोल्लासिन सज्जना ॥ ७४ ॥ १ त्वत्पुत्रेण २. पश्चदशस्तीर्थकरो धर्मनाथ ३. गार्हस्थ्यम्