पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३ सर्ग) 8 धर्मशर्माभ्युदयम् । उत्क्षिप्तसहकाराग्रमञ्जरीरुक्मदण्डिकः । उत्सारयल्लवङ्गैलालाञ्चिकर्पूरचम्पकान् ॥ ३० ॥ कासारसीकरासारमुक्ताहारविराजितः । प्रेर्यमाणो मुहुर्वेल्लल्लताहस्ताग्रसज्ञया ॥ ३१ ।। अयमस्माकमेणाक्षि चन्दनामोदसुन्दर । मरुदभ्यर्णतामेति वेत्रीवोद्यानभूपते ॥ ३२ ॥ (विशेषकम्) तन्वाना चन्दनोद्दामतिलक वदने किल । करोत्यक्षतदूर्वाभिर्मङ्गल मे वनस्थली ॥ ३३ ॥ एता प्रवालहारिण्यो मुदा भ्रमरसगता । मरुन्नर्तकतालेन नृत्यन्तीव वने लता ॥ ३४ ।। निरूपयन्निति प्रीत्या प्रियाया. प्राप्य काननम । तत्क्षणादक्षमत्याक्षीदौद्धत्यमिव पाथिव ॥ ३३ ।। तत्कालोत्सारिताशेपराजचिह्नो व्यराजत । गुरून्नभिव्रजन्नेष विनयो मूर्तिमानिव ।। ३६ ॥ नक्षत्रैरुन्नतैर्युक्त सकान्त केलिकाननम् । कराम कुडलीकृत्य रोजा घनमिवाविशत् ॥ ३७ ।। ददर्शाशोकमस्तोकस्तबकैस्तत्र पाटलम् । रागैश्छन्नमिवासन्नमुनीना मुक्तमानसै ॥ ३८ ॥ अधस्तात्तम्य विस्तीर्णे स्फाटिकोपलविष्टरे। तप, प्रगुणितागण्यपुण्यपुञ्जमिव स्थितम् ॥ ३९ ।। दत्तनेत्रोत्सवारम्भमाश्रित मुनिसत्तमै । ऋक्षैरिव धरोत्तीर्ण क्षण नक्षत्रनायकम् ॥ ४० ॥ १ प्रतीहार २ चन्दनवृक्षणोद्दाम तिलक वृक्षविशेषम् , (पक्षे) चन्दनम्योदाम तिला विशेषकम् : अक्षताभिर्दूर्वाभि , अक्षतैरभग्नतण्डुलयुक्ताभिर्दभिश्च ४ प्रवाल पनवे , विद्रुमश्च ५ त्रमर-सगता , भ्रमरस-गता ६ अक्ष रयम्, आयव्ययादिव्यवहाा- ७ नक्षत्र क्षत्रिय , (पक्षे) उडुभि ८ वद्धा अलि , सचिनकिरणच रामा चन्द्र चिन्ता वा