पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० काव्यमाला। अतुच्छमच्छाधमहो महस्विना पयोदकाले तदसौ समुद्यते । नवाम्बुधाराविनिपातजर्जरैर्न राजहंसैन पलायितं जवात् ॥ १० ॥ समुल्लसत्खङ्गलतापहस्तितक्लमं धरित्री समवाप्य तद्भुजम् । विषाग्निगर्भैः श्वसितैरिवाकुला मुमोच मैत्री फणिचक्रवर्तिन ॥ ११ ॥ नियोज्य कर्णोत्पलवज्जयश्रिया कृपाणमस्योपगमे समिद्गृहे । प्रतापदीपा शमिता विरोधिनामहो सलज्जा नवसंगमे स्त्रियः ।। १२ ।। असक्तमाकारनिरीक्षणादपि क्षणादभीष्टार्थकृतार्थितार्थिन । कुतश्चिदातिथ्यमियाय कर्णयोर्न तस्य देहीति दुरक्षरद्वयम् ॥ १३ ॥ उपासनायास्य बलाभियोगत. प्रकम्पमाना' कुलपर्वता इव । समाययुरि मदाम्बुनिर्झरा क्षितीश्वरोपायनमत्तदन्तिनः ॥ १४ ॥ निपीतमातङ्गघटाग्रशोणिता हठावगूढा सुरतार्थिभिर्भटै. । किल प्रतापानलमासदत्समित्समृद्धमस्यासिलतात्मशुद्धये ॥ १५ ॥ ततः श्रुताम्भोनिधिपारदृश्वनो विशङ्कमानेव पराभव तदा । विशेषपाठाय विधृत्य पुस्तकं करान्न मुञ्चत्यधुनापि भारती ॥ १६ ॥ बभुस्तदस्त्राहतदन्तमण्डलात्समुच्छलन्तो हुतभुक्कणा क्षणम् । सरक्तवान्ता वरवैरिवारणव्रजस्य जीवा इव संगराजिरे ॥ १७ ॥ श्रुत च शीलं च बलं च यत्त्रयं स सर्वदौदार्यगुणेन संदधत् । चतुष्कमापूरयति स्म दिग्जयप्रवृत्तकीर्ते प्रथम सुमङ्गलम् ॥ १८ ॥ तदीयनिस्त्रिशलसद्विधुंतुदे बलाद्गिलत्युद्यतराजमण्डलम् । निमज्ज्य धारासलिले स्वमुच्चकैर्ददुर्द्विजेभ्य प्रविभज्य विद्विषः ॥ १९ ॥ उदर्कवक्त्रा वनितास्वभावतो विभाव्य विसम्ममधारयन्निव । व्यशिश्रणद्वैरिकुलाद्बलाहृता स्वसंमतेभ्यो बहिरेव स श्रियम् ॥ २० ॥ विदारितारिद्विपगण्डमण्डलीसमुल्ललल्लोलशिलीमुखच्छलात् । कचेषु खड्ग क्रमकिंकरीमिव क्रुधा चकर्षास्य जयश्रियं रणे ॥ २१ ॥ १ माताघटा हस्तिसमूह; (पक्षे) मातङ्गघटश्चण्डालकुम्भ २ देवत्वार्थिभि (पक्षे) निधुवनाधिभि ३ समिति युद्धे समृद्धम्, (पक्षे) समिद्भि काष्ट . मूहम् , चन्द्रविम्ब च. ५. आत्मानम् , धन च ६. पक्षिभ्य , प्राह्मणेभ्यश्च ४ नृपस-