पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ सर्ग.] धर्मशर्माभ्युदयम् । श्रव्येऽपि काव्ये रचिते विपश्चित्कश्चित्सचेताः परितोषमेति । उत्कोरकः स्यात्तिलकश्चलाक्ष्याः कटाक्षभावैरपरे न वृक्षाः ॥१७॥ परस्य तुच्छेऽपि परोऽनुरागो महत्यपि स्वस्य गुणे न तोपः । एवंविधो यस्य मनोविवेकः किं प्रार्थ्यते सोऽत्र हिताय साधुः ॥ १८ ॥ साधोर्विनिर्माणविधौ विधातुश्च्युताः कथंचित्परमाणवो ये । मन्ये कृतास्तैरुपकारिणोऽन्ये पाथोदचन्द्रद्रुमचन्दनाद्याः ॥ १९ ॥ पराङ्मुखोऽप्येष परोपकारव्यापारभारक्षम एवं साधुः । किं दत्तपृष्ठोऽपि गरिष्ठधात्रीप्रोद्धारकर्मप्रवणो न कूर्मः ॥ २० ॥ निसर्गशुद्धस्य सतो न कश्चिच्चेतोविकाराय भवत्युपाधि । त्यक्तस्वभावोऽपि विवर्णयोगात्कथं तटस्य स्फटिकोऽस्तु तुल्यः ॥२१॥ खल विधात्रा मृजना प्रयत्नातिकिं सज्जनम्योपकृतं न तेन । ऋुते तमांसि द्युमणिर्मणिर्वा विना न काचैः स्वगुणं व्यनक्ति ।। २२ ।। दोषानुरक्तस्य खलस्य कम्याप्युलूकपोतस्य च को विशेषः । अह्नीव सत्कान्तिमिति प्रबन्धे मलीमसं केवलमीक्षते यः ॥ २३ ॥ न प्रेम नम्रेऽपि जने विधत्से मित्रेऽपि मैत्रीं खल नातनोषि । तदेष किं नेप्यति न प्रदोषस्त्वामञ्जसा सायमिवावसानम् ॥ २४ ।। श्रव्य भवेत्काव्यदूषणं यन्न निर्गुणं क्वापि कदापि मन्ये । गुणार्थिनो दूषणमाददानस्तत्सज्जनाद्दुर्जन एव साधुः ॥ २६ ।। अहो खलस्यापि महोपयोगः स्नेहद्रुहो यत्परिशीलनेन । आ कर्णमापूरितपात्रमेताः क्षीरं क्षरन्त्यक्षतमेव गावः ॥ २६ ॥ आः कोमलालापपरेऽपि मा गा प्रमादमन्तः कठिने खलेऽस्मिन् । शेवालशालिन्युपले छलेन पातो भवेत्केवलदुःखहेतुः ॥ २७ ॥ आदाय शब्दार्थमलीमसानि यहुर्जनोऽसौ वदने दधाति । तेनैव तस्याननमेव कृष्णं सतां प्रबन्धः पुनरुज्ज्वलोऽभूत् ।। २८ ।। १ दोषः , (पक्षे) रात्रिः, २ प्रकृष्टो दोषः, रजनीमुखं च, ३ दुर्जनः , तैलरहितस्तिलसपादिपिण्याकश्च