पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

अभिनवशशिनो भ्रमेण मा भून्मम बदनेन समागतो मृगस्य । श्रवणगतमितीव कापि पाशद्वयमकरोन्मणिकुण्डलच्छलेन ॥ ६६ ॥ मृगमदधनसारसारपङ्कस्तबकितकुम्भनिभस्तनी सखीनाम् । हृदि मदनगजेन्द्रमात्तधूलीमदमिव काचिददर्शयत्कृशाङ्गी ॥ १७ ॥ लवणिमरसपूर्णनाभिवापीमनु जलयन्त्रघटीगुणोपमानम् । निरवधि दधती कयापि मुक्तामणिमयहारलता न्यधायि कण्ठे ॥ ६८ ॥ अभिमुखमभिदह्यमानकृष्णागुरुघनधूमचयच्छलेन तन्व्य । स्मरपरवशवल्लभाभिसारोत्सुकमनसः परिरेभिरे तमासि ॥ ६९ ॥ रतिरमणविलासोल्लासलीलासु लोला किमपि किमपि चित्ते चिन्तयन्त्यस्तरुण्यः । प्रविरचितविचित्रोदारशृङ्गारसारा सह निजनिजनाथैः स्वानि धामानि जग्मुः ॥ ७० ॥ इत्थं वारिविहारकेलिगलितश्रोणीदुकूलाञ्चला वीक्ष्यैता परयोषितः सुकृतधूधुर्यो जगदबान्धव । तद्दोषोपचयप्रमार्जनविधौ दत्ताशय साशुको- ऽप्यब्धि स्नातुमिवापर दिनमणिस्तत्कालमेवागमत् ॥ ७१ ।। इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये त्रयोदशः सर्गः । चतुर्दश सर्ग । स्व सप्तधा स्यन्दनसप्तिदम्भात्कृत्वा समाराधयतोऽथ वृद्ध्यै । ध्वान्तस्य भानु कृपयेव दातु प्रस्तावमस्ताचलसमुखोऽभूत् ॥ १ अपास्य पूर्वामभिसर्तुकामो गुप्ता दिश पाशधरेण सूर्यः । विलम्बमानापसरन्मयूखै पपात पाशैरिव कृष्यमाण ॥ २ ॥ स्वैराभिसारोत्सवसनिरोधात्क्रोधोद्भुराणामिव बन्धकीनाम् । अर्कस्तदा रक्तकटाक्षलक्षच्छटाभिराताम्ररुचिर्बभूव ॥ ३ ॥ ता पूर्वगोत्रस्थितिमप्यपास्य यद्वारुणीं नीचरतः सिषेवे । स्वसनिधानादपसार्यते स्म महीयसा तेन विहायसार्कः ॥ ४ ॥१ रथाश्वव्याजात्. २. वरुणेन