पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३ सर्गः धर्मशर्माभ्युदयम् ।

धुतकरवलयस्वनं निशम्य प्रतियुवतेरलिखण्डिताधरायाः । अविहितकथया कयापि सेर्ष्ये विवलितकधरमैक्षि जीवितेशः ॥ १३ ॥ अकलुषतरवारिभिविभिन्नाखभिनवपत्रलतासु कामिनीनाम् । नखपदविततिर्दधौ कुचान्तर्भुवि परिशेषितरक्तकन्दलीलाम् ॥ १४ ॥ अविरतजलकेलिलोलकान्तास्तनकलशच्युतकुङ्कुमैस्तदानीम् । कृतबलविलेपनेव रेवा पतिमकरोत्सरितामतीव रक्तम् ॥ १५ ॥ अहमुदयवता जनेन नीचै पपनिरतापि यदृच्छयोपभुक्ता । इति सरलितवीचिबाहुदण्डा प्रमदभरादिव वाहिनी ननर्त ॥ ५६ ॥ दिनमबलमथो गृहान्प्रयाथ क्षणमहमप्यमय भजामि कान्तम् । इति करुणरुतेन चक्रवाक्या समभिहिता इव ता प्रयातुमीषु ॥ १७ ॥ इति कृतजलकेलिकौतुकास्ता सह दयितै सुदृशस्ततोऽवतेरु । कलुषितहृदयस्तदा नदोऽपि प्रकटमभूदिव तद्वियोगदु खैः ॥ ५८ ।। जलविहरणकलिमुत्सृजन्त्या कचनिचय क्षरदम्बुरम्बुजाक्ष्या । परिविदितनितम्बसङ्गसौख्य पुनरपि बन्धभियेव रोदिति स्म ॥ ५९ ॥ मुखशशिविमुखीकृतावतारे सतमसि पक्ष इवोच्चये कचानाम् । अविरलजलबिन्दवस्तदानीमुडुनिकरा इव रेजिरे बधूनाम् ॥ ६० ॥ प्रणयमथ जलाविलाशुकाना मुमुचुरुदारदृश क्षणात्तदानीम् । ध्रुवमवगणयन्ति जाड्यभीत्या स्वयमपि नीरसमागत विदग्धा ॥ ११ ॥ अतिशयपरिभोगतोऽम्बुलीलारसमयतामिव सुभ्रुवोऽभिजग्मुः । सितसिचयपदाद्यदुत्तरङ्ग पुनरपि भेजुरिमा पयःपयोधिम् ॥ १२ ॥ मरुदपहृतककणापि काम करकलितामलकङ्कणा तदानीम् । कचनिचयविभूषितापि चित्र विकचसरोजमुखी रराज काचित् ॥ १३ ॥ अनुकलितगुणस्य सौमनस्य प्रकटमभूत्कुसुमोच्चयस्य तेन । अहमहमिकया स्वयं वधूभिर्यदयमधार्थत मूर्ध्नि सभ्रमेण ।। ६४ ॥ समुचितसमयेन मन्मथस्य त्रिभुवनराज्यपदे प्रतिष्ठितस्य । मृगमदतिलकच्छलान्मृगाक्षी न्यधित मुखे नवनीलमातपत्रम् ॥ ६५ ॥१ समाप्तप्रायम् २. नीर-समागतम् ; नीरस-आगतम् ३ पवनापनीतजलकणापि,