पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा वेदाः व्यवहारसभा अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानांम् । जायेव पत्य उशती सुवासा उपा हस्रेव नि रिणीते अप्सः ॥ (१) अभ्रातृकेव पुंसः पितनेत्यभिमुखी सन्तान- कर्मणे पिण्डदानाय न पतिम् । गर्तारोहिणीव धनलाभाय दाक्षिणाजी । गर्तः सभास्थाणुर्गुणातेः । सत्यसंगरो भवति । तं तत्र याऽपुत्रा याऽपतिका सारोहति । तां तत्राक्षैरानन्ति सा रिक्थं लभते । नि. ३।५ (२) अभ्रातेव भ्रातृरहितेव, पुंसः पित्रादीन् प्रति, प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी सती, एति गच्छति । यथा लोके भ्रातृरहिता योषित् स्वोचितवा- सोऽलङ्कारादिलाभाय पितॄन् एति । सति भ्रातरि स एव उचितप्रदानादिना सम्यक् तोषयति । तदभावात् पितर- मेव प्राप्नोति । तथा धनानां सनये गर्तारुगिव इत्यपरो दृष्टान्त: । गर्त इति गृहनाम 'कृदरो गर्त : ' (नि. ३ | ४ | ३) इति तन्नामसु पाठात् । अत्रौचित्येन राजपुरुपै: न्याय- निर्णेतृभिश्च अधिष्ठितं स्थानमुच्यते तदारोहतीति गर्तारुक् यथा लोके, काचित् गतभर्तृका योपित्, धनानां स्वकीय रिक्थानां, सनये लाभाय, गर्तमागच्छति । तां तु सभ्याः विचार्य यदीयं रिक्थं लभते चेत् अक्षैः संताड्य तदीयं धनं वितरन्ति । । , ऋसा. राजा प्राविवाक: यासां राजा वरुणो याति मध्ये सत्यानृते अव पश्यन् जनानाम् । > (१) वरुणो, यासामपां, राजा स्वामी, मध्ये मध्यम लोके, याति गच्छति । किं कुर्वन् । जनानां प्रजानां, सत्या- नृते सत्यं चानृतं चावपश्यन् जानन्नित्यर्थः । ऋसा. (२) राजा राजमानो वरुणः एतत्सज्ञः पापिनां निग्रह- (१) ऋसं. १११२४/७ (२) ऋसं. ७७४९१३; असं. ११३३१२. कर्ता देवः, यासां अपां, मध्ये मध्यभागे, समुद्रमध्य इति यावत् । तत्र स्थित्वा जनानां सत्यानृते सत्यं यथार्थभाषणं तद्विपरीतमनृतं, उभे अवपश्यन् तत्कर्तुर्निग्रहार्थ अव युत्य परस्परसांकर्यपरिहारेण जानन्, याति गच्छति पाशहस्तस्तत्रतत्र सन्निधत्ते । सुँप्रणीतिश्चिकितुषो न शासुः । असा. अयमग्निः, चिकितुषो न विदुषो धर्मशास्त्राभिशस्य, शासुः शासनमिव, सुप्रणीतिः सुखेन प्रणेतव्यः । यथा विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्संशय निर्णयाय नीयतें तद्वत् । ऋसा. अन्तः पश्यन्ति वृजिनोत साधु सर्व राजभ्यः परमा चिन्ति । आदित्या अन्तः मध्ये प्राणिनां हृदि, प्रेरकतया वर्त- मानाः सन्तो, वृजिना वृजिनानि पापानि, उत अपि च, साधु साधूनि पुण्यानि च प्राणिभिः कृतानि, पश्यन्ति जानन्ति । परमा चित् परमाणि दूरदेशावस्थितान्यपि, सर्वे सर्वाणि दृश्यमानानि, राजभ्यो राज्ञामीश्वराणामादि- त्यानामात्यन्तिके समीपे वर्तत इति शेषः । ऋसा. यो राजभ्य ऋतनिभ्यो ददाश | यो राजभ्यो राजमानेभ्यः ऋतनिभ्य ऋतस्य सत्यस्य वा नेतृभ्यः आदित्येभ्यो, ददाश ददाति । ऋसा. विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् । अग्निमीळे स उ श्रवत् । विशां प्रजानां, राजानमीश्वरं, अद्भुतं महान्तं, धर्मणां कर्मणां, अध्यक्षं अनुसंधातारं, इममग्निं, ईळे स्तौमि । स उ स एवाग्निः, श्रवत् अस्मदीयां श्रुतिं शृणोतु । ऋसा, सभा नमः सभाभ्यः सभापतिभ्यश्च वो नमः । (१) ऋसं. ११७३११. (२) ऋसं. २ | २७१ ३ . ( ३ ) ऋसं. २१२७/१२. (४) ऋसं. ८/४३१२४ (५) तैसं. ४/५३; कासं. १७/१३; कसं. २७१३; मैसं. २।९।४; शुमा. १६।२४; शुका. १७१३.