पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम् अग्निपुराणम् व्यवहारपदानि व्यवहारं प्रवक्ष्यामि नयानय विवेकदम् । व्यवहारोऽष्टादशपदस्तेपां भेदोऽथ वै शतम् || शुक्रनीति: पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरात्मकः । क्रियापाद्स्तृतीयस्तु चतुर्थो निर्णयाभिधः ॥ अभियोगों द्विधा शैङ्काऽसतां तु संसर्गादनुभूतकृतेस्तथा । होढाभिदर्शनात्तत्त्वं विज्ञास्यति विचक्षणः || मानसोल्लासः व्यवहारपदानि ग्रंथमं स्याणादानं निक्षेपस्तदनन्तरम् । अस्वामिविक्रयश्चैव तृतीयं परिकीर्तितम् ॥ संभूय च समुत्थानं चतुर्थं परिभाषितम् । (१) अपु. २५३ १. (२) अपु. २५३ १३१. (३) शुनी. ४१६५० (४) शनी. ४१५९८ (५) मासो. २१२०/१२६५- २२७३, १२६४. पञ्चमं दत्तमाख्यातं पष्ठं दत्तापहारकम् ।। सप्तमं वेतनादानं संविल्लङ्घनमटमम् । ! क्रयविक्रयानुशयौ नवमं दशमं तथा ॥ एकादशं तथा प्रोक्तं विवादः स्वामिपालयोः । स्वामिभृत्यविवादश्च द्वादशं समुदाहृतम् || त्रयोदशं समाख्यातं सीमाविवद्नं बुधैः । निरूपितं बुधैरत्र वाक्पारुष्यं चतुर्दशम् || उक्तं पञ्चदशं तज्ज्ञैर्दण्डपारुण्यसंज्ञितम् | स्तेयं पोडशमाख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ पढ़ सप्तदर्श नाम साहसं सद्भिरीरितम् | अप्रादशं समादिष्टं स्त्रीसङ्ग्रहणसंज्ञकम् || एकोनविंशं संप्रोक्तं स्त्रीपुंधर्मो विचारकैः । दायभागाभिधानं च तत्स्याद् विंशतिमं पदम् एकविंशं तथा घृतं द्वाविंशं तु समाह्वयम् | व्यवहारपदान्येतान्याह सोमेश्वरो नृपः ॥ अभियोगो द्विधा अभियोगो द्विधा ज्ञेयः शङ्कया प्रत्ययेन वा । असत्संसर्गतः शङ्का प्रत्ययोऽन्याङ्गदर्शनात् ।। १९