पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ कात्यायनः व्यवहारपदावान्तरभेदाः द्विप॑दे साध्यभेदात्तु पदाष्टादशतां गते । अष्टादश क्रियाभेदात् भिन्नान्यथ सहस्रधा || व्यवहारकाण्डम् (१) क्रियाभेदात्साध्यभेदादित्यर्थः । अनेन व्यवहारा अध्यष्टसहस्रशो भिन्ना इत्यर्थादुक्तम् । 'शतमष्टोत्तरं 'सहस्रशः' इत्येतयोर्बहुत्व प्रतिपादन मात्रपरत्वादविरोधः । स्मृच. २ (२) एतानटादशपदानवान्तरानन्तभेदभिन्नान् प्रका रान्तरेण द्वेधा उपसंगृह्णाति कात्यायन: - 'द्विपदे साध्यभेदात्तु' इत्यादि । पमा. २० (३) सहस्रशी बहुश इत्यर्थः । व्यनि. व्यवहारपादाः पूर्वपक्षश्चोत्तरश्च प्रत्याकलितमेव च । क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः ॥ (१) प्रत्याकलितम् - उत्तरस्वीकारानन्तरं विवदमा नयोः कस्पात्र क्रियोपन्यसनं न्याय्य मिति प्राड्विवाकादीनां विमर्शनम् । क्रिया लिखितादिप्रमाणं तन्निर्देशः क्रियापाद: । विवादात्मकव्यवहारपर्यवसानभागतया प्रत्याकलितक्रिय योरपि व्यवहारत्वात्‘चतुष्पात्समुदाहृत' इत्युक्तम्।अत एव संग्रहकारेणापि पर्यवसानभागस्यापि व्यवहारत्वमुक्तम् 'परस्परं मनुष्याणां स्त्रार्थविप्रतिपत्तिषु । वाक्यन्याय- व्यवस्थानं व्यवहार उदाहृतः' इति || केचित् उपन्यस्त प्रमाणे प्रमाणाभासशङ्कापनोदकं जयाप जयनिर्णयफलकं विमर्शनं प्रत्याकलितमाहुः । तन्मते पादसंख्यैव विवक्षिता न तुः क्रमः | प्रत्याकलितपादस्य तुरीयत्वापातात् । यत्तु याज्ञवल्क्येनोक्तम् (यास्मृ. २१८) 'तत्सद्ध सिद्धिमाप्नोति विपरीतमतोऽन्यथा' इति । तत्रापि सिद्धिशब्देन सिद्धि (१) स्मृच. २ न्यथ (यष्ट) धा (श:) उत्त; मा. २०: व्यनि. द्वि (दे) शेपं स्मृचवत् ; व्यप्र. २२३ स्मृचवत्, उत्त.; प्रका २व्यनिवत्; समु. ४ व्यनिवत्. (२) अप. २१८ रश्च ( रं च ); व्यक. १८ अपवत् ; स्मृच. १३) दीक. ३२; व्यनि. पक्षश्चोत्तरश्च (पक्षोत्तरश्चैव ) तेनायं (विज्ञेयः); व्यसौ.१३ रश्च ( रं च ) समु (द उ); व्यप्र.४४ व्यउ.३२ पक्षश्चोत्तरच (पक्षोत्तरं चैव); प्रका.४; अपवत् ; समु.४ अपवत्. फलकं प्रत्याकलितमुच्यते । न पुनर्जयपराजयावधारणरूपं, तस्य संप्रतिप्रत्युत्तरेऽपि सच्चात्, द्विपात्संप्रतिपत्तिष्विति वचनविरोधप्रसङ्गात् । तस्मात्कात्यायनवचनसमानार्थतैव याज्ञवल्कीयस्यापि वचनस्य । अन्ये पुनरस्य वचनस्य ' भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः । आक्षित- चतुरंशस्तु चतुष्पादभिधीयते ॥' इति स्मृत्यन्तरवचनेन समानार्थत्वं वर्णयन्ति । संप्रतिप्रत्युत्तरे तु साधनानिर्देशात् प्रतिज्ञार्थस्यामाध्यत्वाच्च न साध्यसिद्धिलक्षणः पादोऽ- स्तीति द्विपात् संप्रतिपत्तिष्विति वचनविरोधोऽपि नास्तीति च वदन्ति । अत्र मते पादक्रमोऽपि स्मृत्यन्तरे दर्शितः - 'भापापादस्तु तत्राद्यो द्वितीय श्चोत्तरं तथा । क्रियापादस्तथा चान्यश्चतुर्थी निर्णयः स्मृतः' इति ॥ -- स्मृच.१३ (२) प्रत्याकलित रूपस्तृतीय उक्तः । सभापतिसभ्या- दिविचार: प्रत्याकलितम् । न च तस्य व्यवहर्तृवादिप्रति- वादिनिश्त्वाभावेन व्यवहारांशत्वाभाव इति वाच्यम् । विषयतासंवन्धेन तन्निष्टत्वोपपत्तेः । व्यउ.३२ मिथ्योक्तौ स चतुष्पात्स्यात् प्रत्यवस्कन्दने तथा । प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु || पितामहः सोत्तरानुत्तरत्वेन व्यवहारो द्विधा मतः ॥ उशना व्यवहारपदानि कार्यमुद्दिश्य यत्किञ्चिद्यः कश्चिद्राज्ञि वेदयेत् । पदं तदृष्टादशधा विवादानां प्रकीर्तितम् ।। स्मृत्यन्तरम् व्यवहारपादाः भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः । आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते || भोपापादस्तु तत्राद्यो द्वितीयश्चोत्तरं तथा । क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ॥ (१) स्मृच. ५३; सवि. १ ० ८ स्यात् (त्तु); प्रका.३३-३४; समु.२६. (२) सवि.२१९ (३) व्यक. १९ यत्किञ्चित् (पीडां स्वां); स्मृच. २; नृप्र. ३; प्रका. २; समु. ३. (४) मिता. २१८; स्मृच. १ ३ ; स्मृचि. १ (=); व्यप्र.४४; व्यम. ९; विता. ५१ नारदः; प्रका. ५; समु. ४. (५) स्मृच. १३; सचि. ६२; प्रका. ५; समु. ४.