पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ व्यवहारकाण्डम् व्यवहारयोनित्रयम् कामाक्रोधाच लोभाच्च त्रिभ्यो यस्मात्प्रवर्तते । त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् || (१) कामादयस्त्रयोऽपि यस्मात् प्रवर्तन्ते तस्मात् त्रियोनिरेव व्यवहार उच्यते । अभा.१० (२) यथासंभवं, सर्वत्रेति शेषः । स्मृच. १२ (३) कामादिस्यस्त्रिभ्यः प्रवर्तनात् त्रियोनिः । यस्मा देतत् त्रयमपि निह्नवाभियोगवाग्दण्डपारुप्यादिद्वारेण विवादस्य कारणम् । नाभा. १।२१ अभियोगो द्विधा व्यंभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतां तु संसर्गात्तत्वं होढादिदर्शनात् || । (१) तत्र द्विप्रकार एव अभियोगो भवति । एकः शङ्काभियोगो द्वितीयस्तत्त्वाभियोगश्च । एतयोश्र द्वयो रपि लक्षण मेतस्यैव श्लोक स्यार्धेनाभिहितम् । शङ्का सदाऽ- सत्संसर्गादिति । असन्तो ये प्रसिद्धाश्चौरकर्मप्रभृतयः, तथा वेश्याद्यूतव्यसनं चासत् । एतेषु यस्य सदा अत्यासक्ति र्दृश्यते, तस्यगृहभेदज्ञस्योपरि नाष्टिकस्य पुरुषस्य महती शङ्का समुत्पद्यते । तेनाथंचलेन तस्यासत्सङ्गिनः नाष्टिकोऽभियोगं यं ददाति,स शङ्काभियोग उच्यते ।यस्तु तत्त्वाभियोगः स होढादिदर्शनात् भवति । स्वकीयं द्रव्यं यन्नष्टं तद् होढमुच्यते चोरितं च | तद् दृष्ट्वा योऽभियोगः परस्य दीयते, स तत्त्वाभियोग उच्यते । तत्र शङ्काभि योगस्य देवकुलं निर्णय स्थानम् | तत्त्वाभियोगम्य राज कुलमिति । अभा. १० (१) नासं. ११२१६ नास्मृ. ११२६; अपु. २५३।९-१०; अभा. १०; अप. २११; व्यक. १७; स्मृच. १२; पमा ११तेन (तस्मात्); स्मृचि.२; नृप्र.३; व्यसौ. १२; व्यप्र.६; व्यउ.४; राकौ. ३८४ उत्त.; प्रका. ३; समु. ३. (२) नासं. १ १२२; नास्मृ. ११२७; अपु. २५३।१०-११ इसतां (सद्भिः) होढादि (पोढाभि): अभा. १० सतां तु (सदाऽसत्); मिता. २१५ व्ध (अ) ढादि (ढाभि); व्यमा २८९ व्यभियोगरतु (अभियोग: स) (संसगांदसतां शङ्का तत्त्वं द्राडाभिदर्शनात् ); अप. २११ ढादि (ढाभि); व्यक. १७; स्मृच. १२; पमा १२; व्यनि.; स्मृचि.२ ढादि (डाभि); नृप्र.३; व्यसौ. १२ अपवत्; उयप्र. ६ रमृचिवत्; व्यउ. ४ स्मृचिवत् ; विता. ३२ अपवत्; राकौ. ३८४ उत्त.; प्रका. ३; समु. ३. ( २ ) होढा लोप्चं, लिङ्गर्मिति यावत् । तेन दर्शनं साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽ पि द्विविधः । प्रतिषेधात्मको विध्यात्मकश्चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममाय- मपहरतीति वा । मिता. २१५ (३) होढा लोप्चं, तत्साहचर्यात् शङ्काभियोगः चौर्यादिविषयः । असतां संसर्गादिति हेत्वभिधानाच्च । ऋणादिविवादेषु तु तत्त्वाभियोग एव, निःसंदिग्धनिरा- कुल इति वक्ष्यमाणात् । व्यमा. २८९ (४) असतामसाधूनां व्यवहारकर्तृत्वसंभवाद्भवति शङ्का संदेहः । होढाभिदर्शनं लोपत्रादेर्लिङ्गस्य दर्शनं प्रत्यक्षदर्शनं वा । एवं च ऋणादानादौ प्रमाणपूर्वक संशयपूर्वक चाभियोगः संभवतीति भवति द्व्यभियोगत्वम् । अभियोग आक्षेपः । अप. २।१ (५) कितवस्तेनाद्यसद्भिः संसर्गात्साधावपि स्तेयादि- शङ्का भवति । होढादिदर्शन मपहृतैकदेशादि लिङ्गोप- लम्भः प्रत्यक्षदर्शनं वा । उदाहरण मात्रमसतां संसर्गः, सतामप्याढ्यानां संसर्ग सति निक्षेपादिशङ्कासंभवात् । अतो नैतलक्षणं शङ्काभिगोगस्य ।

  • स्मृच.१२

(६) अभियुज्यत इत्यभियोगः । द्वाभ्यामभियोगो यभियोगः । द्वाभियोगौ यस्येति वा । नाभा. १।२२ व्यवहारपक्षद्वयम् । पक्षद्वयाभिसंबन्धाद् द्विद्वारः समुदाहृतः । पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरम् ॥ (१) पूर्वपक्षरूपं प्रथमं द्वारं तेन द्वारेण व्यवहारः प्रविशति । द्वितीयं द्वारं प्रतिपक्षस्थित उत्तरवादी यानि वदतिं तेन द्वारेण प्रविशतीति । अभा. १० +अप. २।१ अर्थिप्रत्यर्थिनोर्यौ पूर्वोत्तरपक्षो तो व्यवहारस्य

  • पराशर माधव (पृ. २०) व्यवहाराद्योते च वाक्यार्थ: स्मृचवत् ।

+ स्मृच. अपवत् । (१) नालं. १ १ २ ३ द्वा (द्व) सभु (स उ) त्तरम् (त्तरः); नास्मृ. १।२८;अपु.२५३।११-१२ स्तदुत्तरम् (स्त्वनन्तरः); अप. २।१ (पूर्वस्तुभाषया पक्षः प्रतिपक्षं तदुत्तरम् ) ; स्मृच. १२ दुत्तरम् (थोत्तरः); पमा.१२ प्रतिपक्ष (प्रतिवाद), शेषं नासंवत् ; नृप्र. ३ ; व्यसौ. १२ स्तयो: (स्तु यः)त्तरम् (त्तर :) ; व्यउ. ४ नासंवत् ; प्रका. ३ पक्षस्तदुत्तरम् (वादस्तदुत्तर :); समु. ३व्यप्रवत्.. (२) द्वारं कार्यारम्भप्रवृत्तिः ।