पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम् वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहार स्थिताविह ॥ (१) पाठक्रमापेक्षमृणादानस्साद्यत्वं प्राथम्यम् । अथवा मुख्य माद्यम् । अनेन हि वनवासिनोऽपि स्पृश्यन्ते । ऋणादानानुषक्त मनृणादानमेव च । यथा ऋणं ते मया दत्तं शुद्धिलेख्यं प्रयच्छेत्यादि । नैतरणादानं अनुक्तं तु तत्रेति तद्व्यपदेश्यम् । पारुष्ये दण्डवाचिके इति । दण्डश्च वाकू च दण्डवाचं 'द्वन्द्वाच्चुदषहान्तादिति' समासान्त:, तदस्यास्तीति “अत इति ठनाविति” ठन् । स्त्रीपुंधर्म इति । स्त्रीसहितः पुमानिति शाकपार्थिवादिवत्समासः । स्त्री च पुमांश्चेति विग्रहे स्त्रीपुंसधर्म इति स्यात् । मेधा. (२) तेषां अष्टादशानां आदावधमणगृहीतस्य ऋगस्यादानमिह विचार्यते । ततः क्रमेण निक्षेपः । व्यप्र. २२२; व्यउ. ४) व्यम. १; त्रिता. ३३ मरीचिमनुः; राकौ. ३८४; सेतु. १; प्रका. २; समु. ३; विव्य. २०. (१) मस्मृ. ८१५; मिता. २१५; अप. २११; व्यक. १७; दीक.३१; विचि.१; स्मृचि. २; दावे. ३२५) नृप्र. ३; सवि. ५२, ४५० यो (यौ); व्यसौ. १३) वीमि. २५; व्यप्र. २२२; ब्यषु.४; व्यम. १; विता. ३३ सविवत्, मरीचिमनुः ; राकौ. ३८४; सेतु. १; प्रका. २; समु. ३, विव्य. २०. (२) मस्मृ.८/६; मिता. २१५; अप. २११; व्यक. १७- १८; दीक.३१; विचि.१; स्मृचि. २; दुवि. ३२५; नृप्र.३; सवि. ५२ वाद (भाग) : ४५०; व्यसौ. १३; वाभि. २।५ मेव (एव); व्यप्र. २२२; व्यउ. ४; व्यम. १; विता. ३३ मरीचिमनुः; राकौ.३८५; सेतु. १ धर्म (धर्मा); प्रका. २; समु. ३; विव्य. २०. (३) मस्ट. ८ '७; मिता. २१'५; अप. २११ (स्त्री पुंधर्मविभागश्च यतमाह्वानमेव च ) ; व्यक. १८; मवि. आहव इति पाठा- न्तरम् ; दीक.३१ धर्मो (सयो:); विचि. १ दीकवत्; स्मृचि. २; दवि.३२५ भाग (वाद); नृप्र. ३, सवि. ५२,४५० पुं (पु) रस्थिताविह (रे विदुर्बुधा: ); व्यसौ. १३ दकिवत् ; वीमि. २१५; व्यप्र. २२२; व्यउ. ४ विह (विति); व्यम. १; विता. ३३ मरीचिमनुः; राकौ. ३८५; सेतु. १; प्रका. २; समु. ३; विष्य. २९; नन्द, आज्ञानमिति पाठ: व्य. का. २ अस्वामिना च यः क्रियते विक्रयादिः । एकीभूय धना- र्जनेहा । यागाद्यर्थ दत्तस्य प्रतिश्रुतस्त्र वा यागाद्यकरणे सति अप्रदानम् । भृतेरदानम् | ग्रामादिकृतव्यस्थाव्यति- क्रमः । क्रये विक्रये वा सति पश्चात्तापः । स्वामिपालयो- विप्रतिपत्तिः । ग्रामादिसीमाविवादव्यवस्था | वाक्पारुपये आक्रोशादि । दण्डपारुण्यं ताडनादि । चौर्यम् । प्रभृष्या पहरणादि साहसम् | स्त्रियाश्च परपुरुषसंपर्क: रमणम् । स्त्रीसंहितस्य पुंसो भर्तुर्व्यवस्था । पैतृकादिधनविभागः । अक्षादिक्रीडाव्यवस्थापनम् । पशुपक्ष्यादियोधनम् । इत्येव मष्टादशैतानि व्यवहारोत्पत्तौ लोके स्थानानि । गोरा. (३) एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । यथाह नारद: - 'एपामेव' इत्यादि । मिता. २१५ (४) आद्यं प्रधानं बहुविषयं, ऋणस्य न दानम- दानम् । संविदः नियमस्य । दण्डवाचिके दण्डकृत- वाक्पारुष्य इत्येकम् । स्त्रीपुंधर्मः अन्योन्यवृत्तिनियम- स्तयोः । व्यवहारस्य विवादस्य | स्थितौ निर्णये । Xमत्रि. (५) स्वधनस्यान्यस्मिन्नर्पणरूपो निक्षेपः । दत्तस्य अपात्रबुद्धया क्रोधादिना वा ग्रहणम् । यविक्रये च कृते पश्चात्तापाविप्रतिपत्तिः । अनादि- क्रीडा, पणव्यवस्थापनपूर्वकं पक्षिमंपादिप्राणियोधनम् । इत्येवमष्टादश । एतानि व्यवहारप्रवृत्तेः स्थानानि । समाह्वयस्य प्राणिद्यूतरूपत्वेन द्यूतावान्तरविशेषत्वादष्टा- दशसंख्योपपत्तिः । धनस्य Xममु. (६) निक्षेपः धनस्यान्यस्मिन्नर्पणं यथा तथादानं 'यथा दायस्तथा ग्रह ' इति यक्ष्यते । अस्वामि- विक्रयः । सोऽपि द्विविधः प्रकाशाप्रकाशभेदेन । सीम्नि यो विवादस्तस्य धर्मो मर्यादानिर्णयः | साहस सहो बलं तत्कृतं प्रसह्य धनहरणम् । पदानि स्थानानि विषयाः विचारस्येति शेषः । Xमच. (७) एवं लौकिकालौकिकेतु प्रमाणेषु निरुपितेषु प्रमेयाणि व्यवहारसदानि निरुप्यन्ते तृतीये प्रकरणे । तेषां चोद्देशो व्यवहारभेदप्रदर्शनप्रस्तावे 'ऋणादानं हयुपनिधिः' इत्यादिनारदवचनेन दर्शितः। मनुरपि तपामाद्यमित्यादि ।

  • भात्र. गोरावत् । पारुण्यद्वयमेकं पदमित्याह ।

●X अवशिष्ट पदव्याख्या गोरावतु |