व्यवहारकाण्डम् यद्यपि नारदवचने ' द्यूत प्रकीर्णकं चैव' इत्यष्टा- दशपदान्युक्तानि । तथापि प्रकीर्णकप देनोपयुक्तशेषाभि- धानाद्राज्ञैव स्वाज्ञातिक्रमादौ परेण कृते प्रतिवादित्व मास्थाय निर्णेतव्यम् | यच्च ऋणादिपु पूर्वोक्तव्यवहार पदेषु नोक्तं तत्सर्वे प्रकीर्णकमिति नारदेनैव तलक्षण- करणाद्व्यवहर्तृसंबन्धनियमाभावान् मनुना प्रकीर्णकस्य व्यवहारपदत्वानुक्तिरिति ध्येयम् । ताइयोस्तु अप्रा- गिपाशादिकृतत्वप्राणिमल्लमेपादिकृतत्वमात्रभेदादेकंपद- त्ववित्रक्षयाऽष्टादशसङ्ख्योपपादनीया | अन्यथोनविंशति- सङ्ख्यत्वापत्तेः । यथा सपणक्रीडत्वेन तयोरभेदविवक्ष- यैक्यमुक्तं तथा पारुप्यरूपेण वाग्दण्डपारुप्योरयैक्य- विवक्षा संभवति तथापि तन्न विवक्षितम् । स्वतन्त्रेच्छस्य पर्यनुयोगानर्हत्वात् । मनुना द्विवचन प्रयोगान्नारदादि- निबन्धनेषु पृथनिर्देशाच्च । मिति तदेवोक्तम् । वाक्पारुण्यदण्डपारुष्ययोस्तु विपरी- तम् । प्रायेण ते प्रसभमेव क्रियमाणे लोके दृश्येते । छलेन तु तयोः करणं साहसभेदापादकं स्फुटमिति तद्व्यक्तीकरणाय ते एव साहसात् पृथगुपदिष्टे । अत एव तेनाप्राणिप्राणिकृतत्व विशेषापुरस्कारेण समाह्न योऽपि द्यूत त्वेनैवोदृिष्ट इति ध्येयम् । यद्यप्युपनिधिनिक्षेपयोरपि तत्प्रकरणवक्ष्यमाणरीत्यावान्तरभेदोऽस्ति तथापि तमविव- क्षित्वा मनुनारदाभ्यां पर्यायत्वेनैव द्वयं विवक्षितम् । एत- यैव दिशा स्मृत्यन्तस्योरध्यविरोध उन्नेयः । एवं व्यव हारपदानां प्रातिस्विकानि लक्षणानि तदवान्तरभेदाश्च तत्तत्स्थाने व्यक्तीकरिष्यामः । व्यप्र. २२२-२२३ (८) तेषां कार्याणाम् । निक्षेपः निक्षेपापहरणम् | ग्रामनगरादिवासिनां समयः संवित् । स्त्रीपुंधर्मो दम्पति- भ्यामन्योन्यस्मिन्कर्तव्यो धर्मः । Xनन्द. ननु पारुष्यद्वयस्य वश्य माणसाह सविशेषत्वात्पदान्तर स्वोक्तिरयुक्ता | सत्यम् । बलावष्टम्भेन क्रियमाणस्य तस्य साहसत्वं छलकृतस्य तु साहसलक्षणाभावात् पदा- तरत्वम् । तथा चाह नारद:– 'तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र तूच्यते । आधिः साहसमाक्रम्य स्तेयमा घिश्ललेन तु' || तस्येति पूर्वोक्तं साहसं परामृटम् । आधिरर्थाहरणद्वारा क्रियमाणः परस्य मानसः क्लेशः । 'स्याधिर्मानसी व्यथा' इति कोशात् । स आक्रम्य बलावष्टम्भेन विधीयमानः साहसमित्युच्यते । छलेन तु विधीयमान आधि: स्तेयमित्युच्यत इत्यर्थः । नन्वनेन स्तेयस्य साहसाद्भेद उपपादितो न पारुष्यद्वयस्य | सत्यम् । नारदेन स्वयं व्यवहारपदेन पृथगनुद्दिप्रस्थापि स्तेयस्य साहसादुपपादिते भेदे पृथगुद्दिष्टस्य पारुण्यद्वयस्य सुतरां ततः स उन्नेतुं शक्य इत्यभिप्रायो नारदस्य । तदुक्तं सङ्ग्रहकारेणापि – 'मनुष्यमारणादीनि कृतानि प्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा पुनः' || अन्यथा पुनः यद्यप्रसभं कृतानि तदा यथाख्यानि स्वस्वाख्यानि स्तेय स्त्रीसङ्ग्रहणवाक्पारुष्य- दण्डपारुण्यसंज्ञकानि भवन्तीत्यर्थः । अत एव मनुना स्तेयस्त्रीसङ्ग्रहणे अपि व्यवहारपदत्वेन साहसात् पृथ- गुद्दिष्टे | नारदेन तु तयोः प्रायेण लोके छलेनैव क्रिय- (३) भूयिष्ठशब्देनाऽन्यान्यपि विवादपदानि सन्तीति X अवशिष्टपव्याख्या गोरावत् । घृतं समाह्वयं च धृत- समाइयौ इत्येकं पद मन्थर्थमुक्तावल्यनुसारेणाह | (१) मस्मृ. ८/८; अप. २११ र्य (यें ); व्यक.१८ शाश्वत (धर्मशास्त्रं स ); स्मृच. १४ र्यात्कार्य ( यु॑स्तेषां ); । माणत्वात् पदान्तरत्वं स्फुटमित्यनुक्त्वा साहसत्वमस्फुट व्यसौ. १३ व्यकवत्; प्रका. २; समु. ५ स्मृचवत्. स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्म शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ।। (१) भूयिष्ठग्रहणं प्राधान्यख्यापनार्थम् । अन्येऽपि व्यवहारहेतवः सन्ति । यथा निवसनार्थ त्वया मे वेश्म दत्तं तत्र किमित्यर्वाग्वत्सरादन्यस्मै ददासीति । न चेदं दत्ताऽनपकर्म, न ह्यत्र स्वत्वानिवृत्तिरन्ति, भोगानुज्ञामात्रं । वसतः । तथा मदीयस्थण्डिलाभिमुखं त्वया वेश्मनि गवाक्षं कृतमिति | धर्म शाश्वतमाश्रित्येति । अर्थ- कामावशाश्वतौं । अथवा शाश्वतो धर्मः अनिदम्प्रथमतो या व्यवस्था तामनुपालयेत् | यात्विदानीन्तनैः प्रवर्तिता साऽशाश्वतत्वादनादरणीया | मेधा. (२) एविष्टादशसु स्थानेषु व्यवस्थानेषु बाहुल्येन मनुष्याणां विवादं कुर्वतां अनादिपारम्पर्यायात व्यवस्था माश्रित्य व्यवहारनिर्णयं कुर्यात् । भूयिष्ठवचनादन्यान्यपि सन्ति । यथोक्तं नारदेन- 'तेपामेव प्रभेदोऽन्यः शत- महोत्तरं स्मृतम्' । गोरा.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८८
दिखावट