पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् १२ दत्तस्यानपाकर्म । १३ अस्वामिविक्रयः । १४ स्वस्वामिसंबन्धः । १५ साहसम् । १६ वाक्पा रुष्यम् । १७ दण्डपारुष्यम् । १८ द्यूतसमाह्वयम् । १९ प्रकीर्णकानि । इति धर्मस्थीयं तृतीयमधिकरणम् । १ अथ धर्मस्थीय तृतीयमधिकरणम् | धर्मस्था नाम धर्मशास्त्रज्ञाः धर्मशास्त्रानुसारेण व्यहारनिर्णयकर्मण्यधि- कृताः । तेषामिदं धर्मस्थीय तन्निर्णयव्यवहारपदप्रतिपाद- कमित्यर्थः । तत्र प्रथमं सूत्रम् - व्यवहारस्थापना इति । कीदृशो व्यवहारः सिध्यति कीदृशां न सिध्यतीति व्यवस्थापनमिति सूत्रार्थ: । २ विवादपदनिबन्धः, इति सूत्रम् | विवादपदस्य निबन्ध: पूर्वोत्तरपक्षात्मना पत्रे आरोपणं, तत्पूर्वकं चिन्तन मित्यर्थः । ३ विवाहसंयुक्तम्, इति सूत्रम् | विवाहा अष्टविधाः ब्राह्मादयः, तत्सबंद्धो व्यवहार इत्यर्थः । एतच्च प्रकरणं त्रिभिरध्यायैर्वितन्यते । ४ दायविभागः, इति सूत्रम् | दायः पितृपितृव्यादि- धनं तस्य विभागः, अयमपि त्रिभिरध्यायैर्वितन्यते । ५ वास्तुकम्, इति सूत्रम् | वस्तु गृहारामक्षेत्रादि तत्संबद्धं वास्तुकम् । इदमध्यायत्रयेण वितन्यते । तत्र तृतीयाध्याये उत्तरमपि प्रकरणं प्रवेशितम् । ६ समयस्यानपाकर्म, इति सूत्रम् | इदमहं करि प्यामीत्यभ्युपगमात्मा संकेतः, इदमनेन कर्तव्यमिति बहुभिः संभूय कृतो वा संकेतः समयः | तस्य अनपा कर्म त्यागाभावः, इति सूत्रार्थः । इदं प्रकरणं वास्तुक प्रकरणीयविवीतक्षेत्रपथहिंसाव्युत्पादनाध्याये व्युत्पादितम् । ७ ऋणादानम्, इति सूत्रम् | ऋणग्रहण निर्यातन- संबद्धो व्यवहार इत्यर्थः । ८ औपनिधिकम्, इति सूत्रम्। उपनिधिनिक्षेपः तत्संबद्ध मनुष्ठानमौपनिधिकम् । ९ दासकर्मकरकल्पः, इति सूत्रम् । अत्यन्तपारार्थ्य मासाद्य शुश्रूषका दासाः, भृत्य शुश्रूषकाः कर्मकराः तेषां कल्पः तत्संबन्धी विधिः । १० संभूयसमुत्थानम्, इति सूत्रम् | वाणिजकै रम्यैर्वा समुबेत्यारभ्यमाणं कार्य संभूयसमुत्थानम् | + ११ विक्रीतक्रीतानुशयः, इति सूत्रम् । विक्रीतं 1 मूल्यमादाय दत्तं पण्यं, क्रीनं मूल्यं दत्वा गृहीतं, तयो- विपये अनुशयः विक्रयविषयः क्रयविषयश्च पश्चात्ताप इत्यर्थः । १२ दत्तस्यानपाकर्म, इति सूत्रम् | दत्तस्य धर्मा- ग्रंथ वाचा दत्तस्य अनपाकर्म अप्रदानम् । एतच्च विषयविशेषे पुनर्हरणस्याप्युपलक्षणम् । सूत्रम् । अस्वामी १३ अस्वामिविक्रयः इति परद्रव्यव्यवहर्ता तेन कृतो विक्रयः अस्वामिविक्रयः । १४ स्वस्वामिसंबन्धः, इति सूत्रम् । स्पष्टार्थम् । १५ साहसम्, इति सूत्रम् | सहसा कृतं कर्म साहसं प्रसभकर्म । १६ वाक्पारुण्यम्, इति सूत्रम् | वाचा कुत्सन- भर्त्सनादिकमित्यर्थः । १७ दण्डपारुण्यम्, इति सूत्रम् । दण्डेन करणेन पारुण्यं परुपकर्म द्रोहो दण्डपारुण्यम् | १८ द्यूतसमाह्वयम्, इति सूत्रम् । द्यूतं अक्षक्रीडा, समाह्यः अजकुक्कुटादिप्राणिदेवनं तयोः समाहारः द्यूतसमाह्वयं, तत्संबद्धो व्यवहारः प्रकरणेऽस्मिन्नभि धीयत इत्यर्थः । १९ प्रकीर्णकानि, इति सूत्रम् | उक्त विवादपदानन्त- र्गतानि याचितकाद्यदानादिनिमित्तानि विवादपदानि प्रकीर्णकानि तान्यत्राभिधीयन्ते इत्यर्थः । इति धर्मस्थीयमित्यादि । एवमेकोनविंशतिप्रकरण धर्मस्थीयमधिकरणं तृतीयं समुद्दिष्टमित्यर्थः ॥ श्रीम. मनुः व्यवहारपदानि हिंसां यः कुरुते कश्चिद्देयं वा न प्रयच्छति । स्थाने ते द्वे विवादस्य भिन्नोऽष्टादशधा पुनः ॥ तेपामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ (१) मस्मृ.८/३ इत्यत्र प्रक्षिप्तश्लोकोऽयम्; व्यमा २८५ ते द्वे (खे तु) भिन्नोऽष्टादशधा पुनः (तयोर्बहुविधा गतिः). स्मृति- चन्द्रिकायां (पृ. २) तु बृहस्पतिः। (२) मस्मृ. ८/४; विश्व. २११; मिता. २१५; अप. २११; व्यक. १७; दीक. ३१; विचि. १; स्मृचि. २; दवि. ३२५;

नृप्र. ३; सवि.४८, ५२,४५०; व्यसौ. १३; बीमि. २१५;