पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम् (५) अत्र (यास्मृ. २|१) व्यवहारशब्दो रूढियो | सति नायुक्तम् । न च पश्येदित्यनन्वयः । निर्णयार्थकथ- गाभ्यां निर्णयफलकमर्थिप्रत्यार्थविवादमाचष्टे । पमा.६ नतया सर्वनिबन्ध्दभिस्तद्व्याख्यानात् । 'स्मृत्याचार- व्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ( यास्मृ. २१५ ) इति याज्ञवल्क्य वचनं यद्यपि व्यवहारपदान्यृणादानादीनि सामान्येन लक्ष- यति तथापि व्यवहारसामान्यलक्षणमपि समानसंविसंवे- द्यतया ततः प्रतीयते । तस्य ह्ययमर्थः । स्मृत्याचारादि- धर्मप्रमाणातिक्रान्तरीत्यान्यैरभिभूतः पुरुषो राजादिभ्यो व्यवहारदर्शिभ्यो यद्यावेदयति तर्हि तदावेद्यमानं चतु- प्याद्व्यवहारस्य पदं विषय: । हीति । प्रसिद्धमृणादानादि लक्ष्यत्वेन मन्वायुक्तमुपक्षिप्तमिति । एवञ्चाधर्पितस्यार्थि त्वमाधर्षकस्य प्रत्यार्थित्वं तयोर्विवादश्च व्यवहार इति प्रतीयते । इदमेव च मिताक्षरायामन्यविरोधेनेत्यादिना निष्कृष्टमुक्तम् । अन्यविरोधेनेत्यनुक्ते प्रश्नोत्तरादिरूपेण स्वसंबन्धिकथनमपि व्यवहारः स्यात् । स्वसंबन्धितयेत्य- नुक्ते एकसंबन्धितया साक्षिणां कथनमन्यविरोधि भवत्ये- वेत्यस्याप्यर्थित्वापत्तिरतः स्वसंबन्धितयेति । इदं चोत्तर- चतुष्टयेऽप्यनुगतम् । न च संप्रतिपत्तावव्याप्तिः । तत्रापि साध्यतया वादिना निर्दिष्टस्य सिद्धतया निर्देशे तद्विरोध- पर्यवसानात् । अन्यथोत्तरत्वभङ्गप्रसङ्गात् । यत्रापि द्वावपि भाषावादिनौ तत्रापि परस्परविरोधावश्यम्भावान्ना- व्यातिः । इदं चाग्रे व्यक्तीभविष्यति । । व्यप्र. २ - ३ (६) भाषोत्तरक्रियानिर्णायकत्वं व्यवहारत्वम् । व्यत.१९८ (७) अष्टादशविधविषयाणां अन्यतमविषयको विवादो व्यवहारः । सवि.४७ (८) अथ कोऽयं व्यवहारः । प्रमाणतर्कोपष्टब्धः पक्ष- प्रतिपक्षपरिग्रह इचि चेत्, न | वादादेरपि तत्त्वापत्तेः । लिखितादिप्रमाणविशेषः परिगृह्यत इति चेत्, न । तत्रापि तत्प्रवृत्त्य विरोधात् । अनुमानाद्यवहिर्भावाच्च तेषामव्यावर्त कत्वात्। अत एवान्यविरोधेन स्वसंबन्धितया कथनमित्यपि परास्तम् । प्रमाणान्तर्भावेण स्वरूपनिरूपणानौचित्याच्च । कथनादेर्व्यवहारपदवाच्यत्वे 'व्यवहारान्नृपः पश्येत्' इत्याद्यनन्वयाच्च । उच्यते । ऋणादानादिलौकिकार्थविपया कथैव व्यव हारः । कथाव्यपदेशाभावस्तु शास्त्रीयपदार्थाविषय- कत्वात् । अधिकरणादिव्यपदेशो यथा वैदिकार्थविषयक कथायां तथात्र व्यवहारव्यपदेशः । अत एव यथायथं हेत्वाभास निग्रहस्थानादियोजनमपि युक्तम् । तच्च तत्र तत्र प्रदर्शयिष्यते । चतुष्पात्त्वमपि तस्य तदविरोधि एव इत्यपि उपपादयिष्यते । यत्तु गोपालेन तत्त्वनिर्णिनीपु कथात्वाद्वादत्वमेव अस्य इति मिश्रमतत्वेनोपन्यस्य जय भगफलकत्वात् स्थापनावसानत्वाच्च जल्म एवायमिति (९) विप्रतिपद्यमाननरान्तरगताऽज्ञाताऽधर्मज्ञापनानु- तन्निरस्तम्, तत् द्वयमप्ययुक्तम् । शङ्कातत्त्वाभियोग- कुलो व्यापारो व्यवहारः । वादिप्रतिवादिकर्तृकः संभवद्भो भेदेन उभयरूपत्वस्यैव युक्तत्वात् । वैतण्डिकस्य व्यव गसाक्षिप्रमाणको विरोधिकोटिव्यवस्थापनानुकूलो वा व्या हारायोग्यत्वादस्य वितण्डात्वं परं असंभव । अन्यविरो- पारः सः । संप्रतिप्रत्युत्तरे तु व्यवहारपदप्रयोगो भाक्त इति धेन स्वसंबन्धितया कथन मिति विज्ञानयोगिवचोऽप्येवं | मदनरत्ने । वादवितण्डादिव्यावृत्यर्थमुत्तरदलम् । व्यम.१ व्यवहारसंबन्धिविविध विभागसंकलनम् । व्यवहारपदानि । अष्टादशपदावान्तरभेदाः । सोत्तरानुत्तर व्यवहारौ । व्यवहारपादाः । व्यवहारनिर्णयपादाः । सामादय उपाया: । वर्णाश्रम हितकारी व्यवहारः । व्यवहारसंबन्धिजनाः । व्यवहारफलानि । व्यवहारस्य अष्टाङ्गानि । व्यवहारयोनित्रयम् । अभियोगो द्विधा । व्यवहारपक्षद्वयम् । भूतानुसारी छलानुसारी च व्यवहारः । ३ विवाहसंयुक्तम् । ४ दायविभागः । ५ वास्तु- कम् । ६ समयस्यानपाकर्म । ७ ऋणादानम् । ८ १ व्र्व्यवहारस्थापना । २ विवादपदनिबन्धः । औपनिधिकम् । ९ दासकर्मकरकल्पः । १० संभूय- (१) कौं. १११. समुत्थानम् । ११ विक्रीतक्रीतानुशयः । कौटिलीयमर्थशास्त्रम् व्यवहारपदानि