पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम न कुर्वन्ति प्रभृत्याश्चेत्तत्र वादः प्रवर्तते || कात्यायनः व्यवहारलक्षणम् 'शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना । येनात्यन्तं भवेत्पीडा वादः स्याच्छिष्यतः पितुः ॥ प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे । साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥ (१) धर्ममाख्यातीति धर्माख्यः । न्याय विस्तारो न्याय- प्रपञ्चः । तस्मिन्विच्छिन्ने प्रतिवादिना विलोपिते । ततश्च लिखितसाक्ष्यादिप्रमाणोपन्यासरूप प्रयत्नसाध्ये सति यो वादिनोर्वादः स व्यवहार इति । अप. २।१ (२) सत्यभाषणाहिंसननिष्ठत्वादिप्रयत्नसाध्ये धर्माख्ये पदार्थे लोभद्वेषादिवशात् विच्छिन्ने सति यत्र ऋणा- दानादौ स्वधनप्रा'त्यर्थे समयधमीदो च परधर्मवर्जनार्थं न्यायविस्तरणं क्रियते तत्र साध्यमूलो यो मनुष्याणां विवाद: स व्यवहार इत्युच्यत इति ।

  • स्मृच.१

(३) तत्र रूढ़ि: कात्यायनेन निरूपिता । न्यायः शिष्टसंप्रतिपन्नं लौकिकमाचरणं तस्य विस्तरः 'इदं मदीयं धनमन्येनापहृतम्’ ‘ तत् क्षेत्रधनादिकं एतस्य •युक्तं नान्यस्य' इत्युपपत्तिपुरःसरो निर्णयः । तस्मिन् न्याय- विस्तरे विषयीभूते सति । तत्प्रवतकोऽअर्थप्रत्यर्थिनोय विवादः स व्यवहार उच्यते । ' मदीयं धनमन्येनापहृतं तत्पुनर्मया साधनीयम्' इत्यर्थी यदुद्दिश्य प्रवर्तते तद्धनं साध्यम् | तच्च मूलं यस्य विवादस्य सोऽयं साध्यमूलः । अयं च कदा संपद्यत इस पेक्षायामुक्तम्- 'प्रयत्नमाध्ये विच्छिन्ने ' इत्यादि । ‘ सत्यं ब्रूयात् प्रियं ब्रूयान्न स्तेनः स्यान्न वार्धुपिः । इत्यादिविधिनिषेधावुपलभ्य विहिता- नुष्ठाने प्रतिषिद्धवर्जने चोपन्न उत्साहः प्रयत्नस्तेन साध्यो धर्मनामकः पदार्था यदा विच्छिन्नो भवति तदा- नीमयं विवाद उपपद्यते । असति तु धर्मविच्छेदे नास्ति

  • सवि. (पृ. ४७) स्मृचवत् । व्यवहारप्रकाशे व्यवहारोद्योत

च यः स्मृतिचन्द्रिकानुवादः स स्मृतिचन्द्रिकायां नोपलभ्यते । (१) स्मृच. १; प्रका. १; समु. ३ न्तं (थं). (२) अप. २३१ लस्तु (लोऽत्र); व्यक. १६) स्मृच. १; पमा.६; नृप्र.१; व्यसौ.११; व्यप्र. ३; व्यउ. २; प्रका. १. समु. ३. व्यवहारस्थावकाशः । अत एवं नारदः 'मनुः प्रजा- पति: ' इति, ' तदा न व्यवहारोऽभूत्' इति । बृहस्प- तिस्तु द्वेषलोभादिदुष्टस्यैव व्यवहारकर्तृत्वमाह – 'धर्म- प्रधानाः पुरुषाः पूर्वमासन्नहिंसकाः । लोभद्वेपाभिभूतानां व्यवहारः प्रवर्तितः' इति ॥ तस्माद्ध विच्छिन्ने सति माध्यमूलो न्यायनिर्णयफलो विवादो व्यवहारशब्देन रूड्याऽभिधीयते । पमा ६-७ (४) एतच्च व्यवहारहेतुव्यवहारस्वरूपोक्तिपरतया माधवीयपारिजातादिष्वेवं व्याख्यातम् । विहिताचरण- निषिद्धवर्जनादिप्रयत्नसाध्ये धर्माख्ये वस्तुनि विच्छिन्ने विते सतीति व्यवहारहेतुरुक्तः । धर्माधर्मविप्लवस्यैव व्यवहारहेतुत्वात् मदनख़्ने तु न्यायः प्रमाणं तस्य विस्तरः प्रवृत्ति - र्यस्मिन् विषय इति । साथ्यमूल इत्यादि तुल्यम् । मदनरत्नरत्नाकरस्मृतिचन्द्रिकाकल्पतरुकारैः सर्वमेवेदं वचनं व्यवहारस्वरूपपरतयापि व्याख्यातमित्थम् - प्रयत्न- साध्ये कष्टसाध्ये पराभिभवेन स्वेच्छया भोक्तुभशक्ये गृह- क्षेत्रादौ सति, न्याय: प्रमाणं, विस्तार्यते प्रपञ्च्यते यस्मिन् तस्मिन् धर्माधिकरणे सदसि, साध्यमूल इत्यादि पूर्ववत् । तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्ये नातीव यतितव्यम् । वयं तु सर्वसप्तम्यन्तसामानाधिकरण्येन व्याचक्ष्महे । विहितानुष्ठानादिगोचरप्रयत्नसाध्ये धर्माख्ये न्यायविस्तरे, नीयते अर्थाऽनेनेति न्यायः प्रमाणं श्रुतिस्मृत्यादि, विस्ता- र्यंते प्रवर्ततेऽस्मिन् श्रुत्यादिप्रमेय इत्यर्थः । विच्छिन्ने विविधच्छिन्ने प्रमाणापरिज्ञानतात्पर्यानवधारणादिना दुर्जये सति । यद्वा धर्म आख्यायतेऽनेनेति धर्माख्यो धर्मप्रतिपादक इति यावत् । न्यायविस्तरे प्रमाणसमूहे श्रुतिस्मृत्यादौ प्रमादादिना विच्छिन्ने दुतप्राये सति । साध्यमूल इत्यादि गतार्थमिति । ऋव्यप्र. ३-४ व्यवहारपदनिरुक्तिः वि' नानाथऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणा व्यवहार इति स्मृतः ॥ ऋव्यवहारोबोने परमतानुवाद: व्यप्रवत् । ( १ ) व्यमा २८३ स्मृतः ( स्थितिः); व्यक. १६; ममु. ८।१; पमा. ७; दकि. ३१; व्यचि. ७ ; व्यनि.; स्मृचि. १ । संदेहे (संदेहो); नृप्र.१; ग्यत. १९८ व्यमावत् ; मन्च.८।१ इति