पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् कौटिलीयर्थशास्त्रम् शासनाधिकारः लेख- पदसमूहो वाक्यमर्थपरिसमाप्तौ; एकपदावर- स्त्रिपदपरः परपदार्थानुरोधेन वर्ग: कार्य: । शाने शासनमित्याचक्षते । शासनप्रधाना | परिसंहरणार्थ इति शब्दो वाचिकमस्येति च । हि राजानः, तन्मूलत्वात् संधिविग्रहयोः । तस्मादमात्यसंपदोपेतः सर्वसमयविदाशुग्रन्थ- वाक्षरो लेखवाचनसमर्थो लेखकः सोऽव्यग्रमना ज्ञः संदेशं श्रुत्वा निश्चितार्थ लेखं विदध्यात् । देशैश्वर्यवंशनामधेयोपचारमी- श्वरस्य, देशनामधेयोपचारमनीश्वरस्य । स्यात् । जातिं कुलं स्थानवयः श्रुतानि कर्मर्द्धिशीलान्यथ देशकालौ । यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुषानुरूपम् ॥ अर्थक्रमः, संबन्धः, परिपूर्णता, माधुर्यमौदार्य, | स्पष्टत्वमिति लेखसंपत् । तत्र यथावदनुपूर्वक्रियाप्रधानस्यार्थस्य पूर्वम | भिनिवेश इत्यर्थस्य क्रमः । प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानमा समाप्तेरिति संबन्धः । अर्थपदाक्षराणामन्यूनानतिरिक्तता हेतूदाहरण- दृष्टान्तैरर्थोपवर्णनाश्रान्तपदतेति परिपूर्णता । सुखोपनीत चार्वर्थशब्दाभिधानं माधुर्यम् । अग्राम्यशब्दाभिधानमौदार्यम् । प्रतीतशब्दप्रयोगः स्पष्टत्वमिति । अकारादयो वर्णाः त्रिषष्टिः । वर्णसंघातः पदम् । तच्चतुर्विधं नामाख्यातो पसर्गनिपाताश्चेति । तत्र नाम सत्वाभिधायि । अविशिष्टलिङ्गमाख्यातं क्रियावाचि | क्रिया- विशेषकाः प्रादय उपसर्गाः । अव्ययाश्चादयो निपाताः । (१) कौ. २११०. निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानमथार्थना | प्रत्याख्यानमुपालम्भे: प्रतिषेधोऽथ चोदना ॥ सान्त्वमभ्यवपत्तिश्च भर्त्सनानुनयौ तथा । एतेष्वर्था : प्रवर्तन्ते त्रयोदशसु लेखजाः || तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा | गुणवचनमेतेषामेव प्रशंसा ।' 'कथमेतदिति पृच्छा । 'एवं' इत्याख्यानम् । देहीत्यर्थना । 'न प्रयच्छामि' इति प्रत्याख्यानम् । अननुरूपं भवत इत्युपालम्भः । 'मा कार्षीः ' इति प्रतिषेधः । 'इदं क्रियतां' इति चोदना । 'योऽहं स भवान्, मम यदुद्रव्यं तद्भवतः ' इत्युपग्रहः सान्त्वम् । व्यसनसाहाय्यमभ्यवपत्तिः । सदोपमायतिप्रदर्शनमभिभर्त्सनम् । अनुनय स्त्रि विधोऽर्थकृतावतिक्रमे पुरुषादि- व्यसने चेति । प्रज्ञापनाज्ञापरिदानलेखाः तथा परीहारनि- सृष्टिलेखौ | प्रावृत्तिकश्च प्रतिलेख एव सर्वत्र गश्चेति हि शासनानि ॥

अनेन विज्ञापितमेवमाह तद्दीयतां चेद्यदि तत्वमस्ति । राज्ञः समीपे वरकारमाह प्रज्ञाप- नैषा विविधोपदिष्टा ॥ भर्तुराज्ञा भवेद्यत्र निग्रहानुग्रह। प्रति । विशेषेण तु भृत्येषु तदाज्ञालेखलक्षणम् ।। यथार्हगुणसंयुक्ता पूजा यत्रोपलक्ष्यते । अध्याधौ परिदाने वा भवतस्तावुपग्रहौ । जातेर्विशेषेषु पुरेपु चैव ग्रामेषु देशेषु च तेषु तेषु । अनुग्रहो यो नृपतेर्निदेशात् तज्ज्ञः परीहार इति व्यवस्येत् ||