दर्शनविधिः महाभारतम् व्यवहारदर्शने वैन्यस्य प्रतिज्ञा सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी । अनया किं मया कार्य तन्मे तत्वेन शंसत || यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् । तदहं वै करिष्यामि नात्र कार्या विचारणा तमूचुस्तत्र देवास्ते ते चैव परमर्षयः । नियतो यत्र धर्मो वै तमशङ्कः समाचर ॥ प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु । कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः ।। (१) भा. १२/५९. /१०१-११०. यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः | निप्रायास्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता ॥ प्रतिज्ञां चाधिरोहख मनसा कर्मणा गिरा | पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् । यश्चात्र धर्मो नित्योक्तो दण्डनीतिव्यपाश्रयः । तमशङ्कः करिष्यामि स्ववशो न कदाचन ॥ अदण्डया मे द्विजाश्चेति प्रतिजानीहि हे विभो । लोकं च संकरात्कृत्स्नं त्राताऽस्मीति परंतप | वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् । ब्राह्मणा मे महाभागा नमस्याः पुरुषर्षभाः ॥ एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः ॥ - क्रिया बृहद्यमः वादिनोर्मध्ये कदा कतरेण प्रमाणोपन्यासः कर्तव्य: साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ (१) बृयस्मृ. ५/२५-२६.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९५
दिखावट