पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् १६ यः संख्याव्यवहारविस्तरगतौ योऽष्टादशाख्यैः पदैः द्वात्रिंशच्छतभेदभिन्नपदकैरुक्तश्च तन्निर्णयः । सोऽस्मिन्नेव महर्षिनारदकृते शास्त्रे परं नापरे कल्याणोऽवददेतदत्र भुवनेऽप्यर्धा विधायाङ्गुलिम् ॥ दृष्ट्वाऽसहायरचितं नारदभाष्यं कुलेखकैर्भ्रष्टम् । कल्याणेन क्रियते प्राक्तनमेतद्विशोध्य पुनः ॥ - तस्मिन् शतसहस्रोपनिबद्धे ग्रन्थराशौ आद्यः श्लोको- ऽयं व्याख्यायते - आसीदिदं तमोभूतमित्यादि । तत्र आ- सीदिति भूतकालप्रत्ययेन प्रागवस्था जगतो निर्दिश्यते । तमोभूतमित्यलक्षरूपत्वात् तम एवेदमिति जगदभिसंत्र- ध्यते । अमुमेवार्थे स्फुटं चिकीर्षुराह-न प्राज्ञायत किं- चनेति । तस्मिंस्तमोभूते जगति स्वयंभूर्भगवान् प्रादु- रासीच्चतुर्मुख इति स च स्वयंभूरतो यतस्तस्योत्पत्तेः कर्ता कश्चिदन्यो न वर्तते । भगवानिति पूजापदम् । प्रादुः प्रकाशार्थ: । आसीदिति भूतकालपर्यायः । प्रादुरासीत् प्रकाश आसीदिति । चतुर्मुख इति रूपनिर्देशः । स च स्वयम्भूः प्रजापतिर्ब्रह्मा जगतस्तत्स्वयमशीतिशतसहस्रं धर्मव्यवस्थास्थितिज्ञापकं शास्त्रं कृत्वा सदाचारसंव्यवहारप्रकाशकमुद्योतकमकरोत् । तस्माच्छास्त्राद्व्यवहाराध्याय एवायमिति सुप्रपञ्चितोऽभि हितः सर्वलोकोपकारित्वात् नारदमहर्षिणा। अस्या- स चास्याज्ञाततमसान्धस्य यमाद्यः श्लोकः – धर्मेकताना इति । अभा. १, २. (२) नारदश्च स्मरति । 'शतसहस्रोऽयं ग्रन्थः प्रजापतिना कृतस्ततः स मन्वादिभिः क्रमेण संक्षिप्त' इति । मेधा. १।५८