पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम् कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् । लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥ प्रवृत्तौ च निवृत्तौ च यस्मादेतद्भविष्यति । यजुर्ऋक्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ यथाप्रमाणं हि मया कृतो ब्रह्मा प्रसादतः । रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा ॥ सूर्याचन्द्रमसौ वायुर्भूमिरापोग्निरेव च । सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् || अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः । सर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम् ॥ भविष्यति प्रमाणं वै एतन्मदनुशासनम् ॥ तस्मात्प्रवक्ष्यते धर्मान् मनुः स्वायम्भुवः स्वयम् || उशना बृहस्पतिश्चैव योत्पन्नौ भविष्यतः | तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् || स्वायम्भुवेषु धर्मेषु शास्त्रे चौशनसे कृते । बृहस्पतिमते चैव लोकेषु प्रतिचारिते ॥ युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः । बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः || सहि सद्भावितो राजा मद्भक्तश्च भविष्यति । तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करि- ध्यति || एतद्धि युष्मच्छात्राणां शास्त्रमुत्तमसंज्ञितम् | एतदर्थ्य च धर्म्य च रहस्यं चैतदुत्तमम् ।। अस्य प्रवर्तनाच्चैव प्रजानन्तो भविष्यथ । सच राजश्रिया युक्तो भविष्यति महान् वसुः ॥ संस्थिते तु नृपे तस्मिन् शास्त्रमेतत्सनातनम् | अन्तर्धास्यति तत्सर्वमेतद्वः कथितं मया ॥ एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः । विसृज्य तानृषीन् सर्वान् कामपि प्रसृतो दिशम् ॥ ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः । प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् || उप्तन्नेऽङ्गिरसे चैव युगे प्रथमकल्पिते । साङ्गोपनिषदं शास्रं स्थापयित्वा बृहस्पतौ ॥ जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः । धारणाः सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥ १५ नारदः ईंह हि भगवान्मनुः प्रथमं सर्वभूतानुग्रहार्थमा- चारस्थितिहेतुभूतं शास्त्रं चकार । यत्र लोकसृष्टि- र्भूतप्रविभागः, सद्देशप्रमाणं, पर्षलक्षणं, वेदवेदाङ्ग- यज्ञविधानमाचारो, व्यवहारः कण्टकशोधनं, राजवृत्तं, वर्णाश्रमविभागौ, विवाहन्याय:, स्त्री- पुंसविकल्पो, दायानुक्रमः, श्राद्धविधानं शौचा- चारविकल्पो, भक्ष्याभक्ष्यलक्षणं, विक्रेयाविक्रेय- मीमांसा, पातकभेदाः, स्वर्गनरकानुदर्शनं, प्राय- श्चित्तानि, उपनिषदो रहस्यस्थानानि । एवं चतु- विंशतिप्रकरणानि ॥१॥ तदेतदत्र श्लोकशतसहस्रेण साशीतिनाध्यायसहस्रेण च भगवान्मनुरुप - निबध्य देवर्षये नारदाय प्रायच्छत् । स च तस्मादधीत्य महत्वान्नायं ग्रन्थः सुकरो मनुष्यैरेव धारयितुमिति द्वादशभिः सहस्रैः संचिक्षेप तं च महर्षये मार्कण्डेयाय प्रायच्छत् ॥ २ ॥ स च तस्मादधीत्य तथैवायुःशक्तिमपेक्ष्य मनु- घ्याणामष्टभिः सहस्रैः संचिक्षेप तं च सुमतये भार्गवाय प्रायच्छत् ||३|| सुमतिरपि भार्गव - स्तस्मादधीत्य तथैवायुसादल्पीयसी शक्ति- र्मनुष्याणामिति चतुर्भिः सहस्रैः संचिक्षेप ॥ ४॥ तदेतत्पितृमनुष्या ह्यधीयन्ते विस्तरेण शतसहस्रं देवगन्धर्वादयः । तत्रायमाद्यः श्लोकः- आसीदिदं तमोभूतं न प्राज्ञायत किंचन । ततः स्वयंभूर्भगवान् प्रादुरासीञ्चतुर्मुखः ॥५॥ इत्येवमधिकृत्य क्रमात्प्रकरणात्प्रकरणमनुक्रा- न्तम् । तत्र नवमं प्रकरणं व्यवहारो नाम यत्रे- मामादौ देवर्पिनरदः सूत्रीयां मातृकां चकार । अस्यायमाद्यः श्लोकः ॥६॥ धर्मेकतानाः पुरुषा यदासन् सत्यवादिनः । तदा न व्यवहारोऽभून्न द्वेषो नाऽपि मत्सरः ।। (१) नमः सकलकल्याण हेतवे नृपकेतवे । अमोघासार• दुष्पारसंसाराम्भोधिसेतवे ॥ सर्वप्रकरणारम्भसिद्धिबुद्धि- विधायिने । सगिरिगणनाथाय नमः कल्याणदायिने || (१) नास्ट. १११-६ (प्रस्तावना).