सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् | उपायावार्थलिप्सा च विविधा भूरिदक्षिण | मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः । दूषणं स्रोतसां चैव वर्णितं चास्थिराम्भसाम् || यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः । तत्सर्व राजशार्दूल नीतिशास्त्रेऽभिवर्णितम् ॥ एतत्कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः । देवानुवाच संहृष्टः सर्वान् शक्रपुरोगमान् || उपकाराय लोकस्य त्रिवर्गस्थापनाय च । नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥ दण्डेन सहिता येषा लोकरक्षणकारिका । निग्रहानुप्रहरता लोकाननुचरिष्यति ॥ दण्डेन नीयते चेदं दण्डं नयति वा पुनः । दण्डनीतिरिति ख्याता त्रीन् लोकानभिवर्तते ।। षाड्गुण्यगुणसारैषा स्थास्यत्यप्रे महात्मसु । धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः 'ततस्तां भगवान् नीतिं पूर्व जग्राह शंकरः । बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥ प्रजानामायुषोसं विज्ञाय भगवान् शिवः । संचिक्षेप ततः शास्त्रं महास्रं ब्रह्मणा कृतम् ॥ वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत । दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ॥ भगवानपि तच्छात्रं संचिक्षेप पुरन्दरः । सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ॥ अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः । संचिक्षेपेश्वरो बुद्धया बार्हस्पत्यं तदुच्यते ॥ अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् । तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः || एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः । संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासमेव च ॥ महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा । नयचारच विपुलो येन सर्वमिदं ततम् || आगमश्च पुराणानां महर्षीणां च संभवः । तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर || सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च । (१) भा. १२/५९/१३८-१४३. १४ चातुर्वर्ण्य तथैवात्र चातुर्विद्यं च कीर्तितम् || इतिहासाश्च वेदाश्च न्यायः कृत्स्नश्च वर्णितः । तपो ज्ञानमहिंसा च सत्यासत्येन यः परः || वृद्धोपसेवा दानं च शौचमुत्थानमेव च । सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् ।। भुवि चाधोगतं यच्च तच्च सर्व समर्पितम् । तस्मिन् पैतामहे शास्त्रे पाण्डवैतन्त्र संशयः || तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः । नानृता वाक् समभवन् मनो दुष्टं न चाभवत् || न च कायेन कृतवान् स पापं परमण्वपि । ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः ।। तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् । वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ ॥ आस्यैः सप्तभिरुद्गीर्ण लोकधर्ममनुत्तमम् मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।। वसिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः | सप्त प्रकृतयो ह्येत । स्तथा स्वायम्भुवोष्टमः ॥ एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिसृतम् । एकाग्रमनसो दान्ता मुनयः संयमे रताः || भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः । इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ॥ लोकान् संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे । तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः ॥ मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः । आराध्य तपसा देवं हरिं नारायणं प्रभुम् || दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह । नारायणानुशास्ता हि तदा देवी सरस्वती || विवेश तानृषीन् सर्वान् लोकानां हितकाम्यया । ततः प्रवर्तिता सम्यक् तपोविद्भिर्द्विजातिभिः ॥ शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा । आदावेव हि तच्छास्त्रमोंकारस्वरपूजितम् || ऋऋषिभिः श्रावितं यत्र तत्र कारणिको ह्यसौ । ततः प्रसन्नो भगवान निर्दिष्टशरीरगः । ऋषीनुवाच तान् सर्वान् अदृश्यः पुरुषोत्तमः || (१) भा. १२ | ३३५/२६.५५.