पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धहारीतः न्यायदण्ड: दण्डसज्ञा: न्यायेन दण्डनं राज्ञः स्वर्गकीर्तिकरं भवेत् । ‘अन्यायदण्डनं राज्ञः स्वर्गकीर्तिविनाशनम् || अदण्डयान् दण्डयन् राजा तथा दण्ड्यानद- ण्डयन् । अयशो महदाप्नोति नरकं चाधिगच्छति ॥ दण्डप्रकाराः । दण्डविवेकः । 'धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । ज्ञात्वाऽपराधं देशं च जनं कालमथापि वा ॥ वयः कर्म च वित्तं च दण्डं न्यायेन पातयेत् । (१) वृहास्मृ. ७/१९३,१९४. (२) वृहास्मृ. ७/१९५-१९७. निश्चित्य शास्त्रमार्गेण विद्वद्भिः सह पार्थिवः ॥ गुरूणां तु गुरुं दण्डं पापानां च लघोलेघुम् । व्यवहारान् स्वयं पश्यन् कुर्यात् सद्भिवृतोऽ- न्वहम् || आहाणदण्डविचार: 'येषु केषु च पापेषु शारीरं दण्डनं स्मृतम् । तेषु तेष्वङ्कनेनैव अक्षतो ब्राह्मणो व्रजेत् ॥ पापानेवाङ्कयित्वाऽस्य मुण्डयित्वा शिरोरुहान् । सर्वस्वहरणं कृत्वा राष्ट्रात् सम्यक् प्रवासयेत् ॥ अवैष्णवं विकर्मस्थं हरिवासरभोजिनम् । ब्राह्मणं गार्दभं यानमारोप्यैव विवासयेत् ॥ (१) वृहास्मृ. ७७२०९-२११; उ.२१२७११७ (अक्षतो ब्राह्मणो व्रजेत् ).