पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदाः व्यवहारशास्त्रोत्पत्तिः व्यवहारस्वरूपम् मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः । हे देवाः मानवात् । मनुः सर्वेषां पिता । तत आगतात्पित्र्यात् पिता मार्ग चक्रे तस्मात्पथो मार्गान्नोऽस्मान् मा नैष्ट । मा नयत । अपनयनं मा कुरुतेत्यर्थः । सर्वदा ब्रह्मचर्याग्निहोत्रादिकर्माणि येन मार्गेण भवन्ति तमेवास्मान्नयत । किंतु दूरं य एत- यतिरिक्तो विप्रकृष्टमार्गोऽस्ति तस्मादधि । अधिकमि- त्यर्थः । अस्मानपनयत । ऋसा. महाभारतम् भीष्म उवाच -- नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः । यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥ न वै राज्यं न राजाऽऽसीत् न च दण्डो न दाण्डिकः । धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम् ॥ पाल्यमानास्तथाऽन्योऽन्यं नरा धर्मेण भारत | खेदं परमुपाजग्मुस्ततस्तान् मोह आविशत् || ते मोहवशमापन्ना मनुजा मनुजर्षभ । प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् || नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा । लोभस्य वशमापन्नाः सर्वे भरतसत्तम ॥ अप्राप्तस्याभिमर्शन्तु कुर्वन्तो मनुजास्ततः । कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो ॥ तांस्तु कामवशं प्राप्तान् रागो नामाभिसंस्पृशत् । रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर अगम्यागमनं चैव वाच्यावाच्यं तथैव च । भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् ।। (१) ऋसं. ८/३०/३. (२) भा. १२/५९/१३.८६ . विप्लुते नरोके वै ब्रह्म चैव ननाश ह । नाशाच्च ब्रह्मणो राजन् धर्मो नाशमथागमत् || नष्टे ब्रह्मणि धर्मे च देवांस्त्रासः समाविशत् । ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ।। प्रसाद्य भगवन्तं ते देवं लोकपितामहम् । ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः ॥ भगवन्नरलोकस्थं प्रस्तं ब्रह्म सनातनम् । लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ॥ ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्वर । ततः स्म समतां याता मर्यैस्त्रिभुवनेश्वर ॥ अधो हि वर्षमस्माकं नरास्तूर्ध्वप्रवर्षिणः । क्रियाव्युपरमात्तेषां ततो गच्छाम संशयम् || अत्र निःश्रेयसं यन्नस्तद् ध्यायस्व पितामह । त्वत्प्रभावसमुत्थोऽसौ स्वभावो नो विनश्यति ॥ तानुवाच सुरान् सर्वान् स्वयम्भूर्भगवांस्ततः । श्रयोऽहं चिन्तयिष्यामि व्येतु वो भी: सुरर्षभाः ॥ ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् । यत्र धर्मस्तथैवार्थः कामवैवाभिवर्णितः || त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा । चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥ मोक्षस्यास्ति त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः । स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥ आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च । सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ॥ त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ । दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः || अमात्यरक्षा प्रणिधी राजपुत्रस्य लक्षणम् । चारश्च विविधोपायः प्रणिधेयः पृथग्विधः || साम भेदः प्रदानं च ततो दण्डश्च पार्थिव । उपेक्षा पञ्चमी चात्र कार्येन समुदाहृता || मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च ।