पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदाः सभायां दण्डः अंथाकामयत भारद्वाज ओजिष्ठा मे बलिष्ठा प्रजा स्यादिति । स एतं पञ्चदशं स्तोममपश्यत्, तमाहरत्, तेनायजतौजो वै बलं पञ्चदशस्तोमा- नाम् । ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाऽभवत् । अपि ह स्म तेन पथा पुरा कुरवो न यन्ति येन भारद्वाजा ययुः । अथो ह स्मोत्क्रोशन्ति भार द्वाजबलमिति । तस्मादु भारद्वाज एवानुज्ञातः सभायां दण्डयं प्रहरेत् । ओजिष्ठो बलिष्ठो भवति य एवं वेद । दण्डः संरक्षते धर्म तथैवार्थ जनाधिप । कामं संरक्षते दण्डत्रिवर्गो दण्ड उच्यते || दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते । एवं विद्वन्नुपाधत्स्व भावं पश्यस्व लौकिकम् || राजदण्डभयादेके पापाः पापं न कुर्वते । यमदण्डभयादेके परलोकभयादपि || परस्परभयादेके पापाः पापं न कुर्वते । एवं सांसिद्धिके लोके सर्व दण्डे प्रतिष्ठितम् || दण्डस्यैव भयादेके न खादन्ति परस्परम् । अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् || यस्माददान्तान् दमयत्यशिष्टान् दण्डयत्यपि । दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः || वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् । दण्ड्यः पुरुषो दण्डमर्हतीति वा दण्डेन संप- दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते || द्यत इति वा । दण्डो ददतेर्धारयति कर्मण: असंमोहाय मर्त्यानामर्थसंरक्षणाय च । 'अक्रूरो ददते मणिम्' इत्यभिभाषन्ते | दमनादि- | मर्यादा स्थापिता लोके दण्डसंज्ञा विशांपते ॥ त्योपमन्यवः । दण्डमस्याकर्षतेति गर्हायाम् । हारीतः ब्राह्मणदण्डविचार: दण्डसज्ञा: निरुक्तम् दण्डपदनिरुक्तिः 'द्विजातीनामवध्यत्वान्मुडनं वध इष्यते || विष्णु: 'यैः समर्थो विसंवादे सर्वस्वहरणं दण्डस्तस्य पुरान्निर्वासः । महाभारतम् दण्डस्वरूपम् । दण्डपद निरुक्ति: । दण्डप्रयोजनम् । हिंसात्मकत्वादिदण्डाक्षेपपरिहारः । अर्जुन उवाच- दण्ड: शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ॥ (१) जैना. १४५. (२) नि. २१२. (३) सवि. ४६३. (४) सवि.४९२, (५) भा. १२/१५/२.५२. यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः । प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥ ब्रह्मचारी गृहस्थञ्च वानप्रस्थश्च भिक्षुकः । दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः || नाभीतो यजते राजन्नाभीतो दातुमिच्छति । नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥ नाच्छित्वा परमर्माणि नाकृत्वा कर्म दुष्करम् । • नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत || य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् । हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ॥ हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः । वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥ एतान् देवान्नमस्यन्ति प्रतापप्रणता जनाः । : न ब्रह्माणं न धातारं न पूषाणं कथंचन ।।