पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसंज्ञाः । युवोः श्रियं परि योषा वृणीत । सूरो दुहिता | हिरण्यं तस्मात्सुवर्ण हिरण्य शतमानं ब्रह्मणे परितक्मियायाम् । यद्देवयन्तमवथः शचीभिः । परिघ्रप्स वां मना वां वयो गाम् । ददाति । 'उत्तरेणाहवनीयं पूर्वाग्निरुद्धृतो भवति । स दक्षिणमन्वनुष्यन्दः शतमानौ रथवाहन प्रवृत्तावाबध्नाति । तैस्यै त्रीणि शतमानानि हिरण्यानि दक्षिणा । तानि ब्रह्मणे ददाति न वै ब्रह्मा प्रचरति न स्तुतेन शसत्यथ स यशो न वै हिरण्येन किंचन कुर्व- त्यंथ तद्यशस्तस्मात्त्रीणि शतमानानि ब्रह्मणे ददाति । यो गायत्री हरिणीम् । ज्योतिष्पक्षां यजमान स्वर्ग लोकमभिवहन्तीं विद्यादिति तस्मै ह निष्कं प्रददावनूचान: स्वैदायनासि सुवर्ण वाव सुवर्ण- विदे ददतीति । सुवर्ण हिरण्यं भवतिरूपस्यैवावरुद्ध शत- मानं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवे- न्द्रियं वीर्यमात्मन्धत्ते । आयुर्हिरण्यं तच्छतमानं भवति तस्माच्छतायुः पुरुषः । सुवर्ण हिरण्यं ददाति रेतो वा ओदनो रेतो हिरण्यरेत सैवास्मिंस्तद्रतो दधाति शतमानं भवति शतायुर्वै पुरुष: शतेन्द्रिय आयु रेवेन्द्रियं वीर्यमात्मन्धत्ते । |

  1. F

'हिरण्यं दक्षिणा सुवर्ण शतमानं तस्योक्तं ब्राह्मणम् । अथातो दक्षिणाना | सुवर्ण हिरण्यं शत- मानं ब्रह्मणे ददात्यासीनो वै ब्रह्मा यशः शयान (१) तैना. २१८|७१८. (२) शबा.५|४|३|२४ (४) शबा. ११/४/११८. (६) शबा.१२।९।१४. (७) राजा. १३।१।१४. (८) शबा. १३|२|३|२, १३१४|१ | १३. (९) शबा.१४।३।१।३२. (३) शन्त्रा. ५/५/५/१६. (५) शत्रा.१२।७।२।१३. रेंजतो निष्कस्तद्गृहपतेः । तस्य ह निष्क उपाहितो बभूव । मयमतम् दशमानसाधनम् सर्वेषामपि वस्तूनां मानेनैव विनिश्चयः । तस्मा मानोपकरणं वक्ष्ये संक्षेपतः क्रमात् ॥ परमाणुक्रमाद् वृद्धं मानाङ्गुलमिति स्मृतम् । परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् || परमाणुभिरष्टाभी रथरेणुरुदाहृतः ॥ रथरेणुश्च बालाग्रं लिक्षायूकाय वास्तथा ॥ क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुलम् | अङ्गुलं तु भवेन्मात्रं वितस्तिर्द्वादशाङ्गुलम् || तवयं हस्तमुद्दिष्टं तत् किष्क्विति मतं वरैः । पञ्चविंशतिमात्रं तु प्राजापत्यमिति स्मृतम् ॥ षड् विंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ब्रहः । याने च शयने किष्कुः प्राजापत्यं विमानके ॥ वस्तूनां तु धनुर्मुष्टिग्रमादीनां धनुर्ब्रहः । सर्वेषामपि वस्तूनां किष्कुरेवाथवा मतः || रत्निश्चैवमरत्निश्च भुजो बाहुः करः स्मृतः । हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तितः ।। दण्डेनाष्टगुणा रज्जुर्दण्डैर्भामं च पत्तनम् | नगरं निगमं खेटं वेश्मादीन्यपि मानयेत् || गृहादीनां तु हस्तेन याने च शयने बुधैः । वितस्तिना विधातव्यं क्षुद्राणामङ्गुलेन तु || यवेनाल्पीयसां मानमेवं मानक्रमं विदुः । मध्यमाङ्गुलिमध्यस्थपर्वमात्रायतं तु यत् || कर्तुर्मात्राङ्गुलं प्रोक्तं यागादीनां प्रशस्यते । देहलब्धाङ्गुलं यत्तदुपरिष्टाद् विधीयते ॥ एवमेवं विदित्वा तु स्थपतिर्मानयेद् दृढम् ।। शिल्परत्नम् परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । त्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः || (१) ताजा. १७११११४. (२) गोबा.११३१६. (३) मय. ५/१-१३. (४) शिल्प. २१-२५,