पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसंज्ञाः

  • वेदाः

धनेन सुराधसः सुधनाः सन्तो देवेषु प्रीतेषु । इन्द्रे निष्कः, शतमानं हिरण्यं, कृष्णलं, सुवर्ण, अष्टापृट् हिरण्यं, इत्यर्थः । श्रवोऽन्नं यशो वाऋत । अलभन्तेत्यर्थः । ऋसा. हिरण्यमना, हिरण्यशुल्कः, हिरण्य पिण्डः शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयता- न्त्सद्य आदम् । नाघमानस्य स्वीकर्तव्यमित्युच्चैर्याचमानस्यासुरस्य घनानां निरसितुर्दानशीलस्य राज्ञः स्वतेजसा दीप्यमानस्य स्वनयस्य निष्कानाभरणविशेषान् इयत्ताविशेष विशिष्टानि वा सुवर्णानि शतसंख्याकानि । शतं सहस्रमि- त्यपरिमितवचनः । अपरिमितान् सद्यः प्रार्थनानन्तरमेव कक्षीवानहमादम् । आत्तवानस्मि । स्वीकृतवानस्मीत्यर्थः । तथा प्रयतान् शुद्धान् लक्षणोपेतानश्वानध्वगमन समर्थान् ऋसा. इयानादम् । आत्तवान् । दशो हिरण्यपिण्डान्दिवोदासादसानिषम् । दशो दश च दशसंख्याकांश्च हिरण्य पिण्डान् सुवर्ण- पिण्डानेतान् सर्वान्दिवोदासात्प्रस्तोकादहमसानिषम् । समभजम् । लब्धवानस्मि | ऋसा. सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु । शुक्रं हिरण्यमा ददे ॥ अहं पृषतीनां गवां सहस्रेऽध्युपरि धारितं बृहन्मह त्ऱृथु विस्तृतं चन्द्रमाह्लादकं शुक्रं निर्मलं हिरण्यमा ददे । स्वीकरोमीन्द्रेणानीतम् । ऋसा. नेपातो दुर्गहस्य मे सहस्रेण सुराधसः । श्रवो देवेष्वक्रत || तोर दुर्गस्य दुःखं गाहमानस्य मे संबन्धिनो जनाः सहस्रेणापरिमितेनेन्द्रदत्तेन गवादि-

  • श्रोतः देशकालमानविषयकवचनसंग्रहः विस्तरभयान्नात्र

कृतः, कालविवेकादिप्रकरणे संग्रहीष्यते । (१) ऋसं. १ | ११६/२. (२) ऋसं. ६/४७/२३. (३) ऋसं.८/६५/११. (४) ऋसं.८/६५/१२. आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् । सचा मना हिरण्यया ॥ हे इन्द्र त्वं नोऽस्मभ्यं व्यञ्जनं गामश्वमभ्यञ्जनं तैलं चा भर । मना मननीयानि हिरण्यया हिरण्मयान्युप- करणानि सचा सहाभरेति । ॠसा.. इंपुर्न श्रिय इषुधेरसना गोषा: शतसा न रहिः । अनया पुरूरवाः स्वस्य विरहजनितं वैक्लव्यं तां प्रति. ब्रूते । इपुः । इषवो धीयन्तेऽत्रेतीषुधिर्निषंगः । ततः सकाशादिषुरसनासनायै प्रक्षेप्तुं न भवति श्रिये विजया- र्थम् | त्वद्विरहायुद्धस्य बुद्धावप्यनिधानात् । तथा रहि- र्वेगवानहं शत्रुसकाशात्गोषास्तेषां शत्रूणां गवां संभक्ता नाभवम् । तथा शतसाः शतानामपरिमितानां शत्रु- धनानां संभक्ता नाभवम् । ऋसा. एतां देवा वै मृत्योर बिभयुस्ते प्रजापतिमुपाधावन्ते- भ्य एतां प्राजापत्या शतकृष्णलां निरवपत्त- यैषैष्वमृतमदधाद्यो मृत्योर्बिभीयात्तस्मा प्राजापत्या शतकृष्णलां निर्वपेत्प्रजापतिमेव स्वेन भागधेयेनोप धावति स एवास्मिन्नायुर्दधाति सर्वमायुरेति शतकृष्णला भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति घृते भव- त्यायुर्वै घृतममृत हिरण्यमायुश्चैवास्मा अमृतं च समीची दधाति चत्वारि चत्वारि कृष्णलान्यव द्यति ।

  • हिरण्याद्घृतं निष्पिबत्यायुर्वै घृतममृत ँ हिर-

ण्यममृतादेवाऽऽयुर्निष्पिबति । (१) ऋसं. ८/७८२. (२) ऋसं.१०/९५/३. (३) तैसं. २/३१२११, २. (४) तैसं. २१३११११५. F