पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका पतितस्य धनं हृत्वा राजा पर्षदि दापयेत् ॥ सर्वस्वं तु हरन् राजा चतुर्थ चावशेषयेत् । भृत्येभ्योऽन्नं स्मरन् धर्म प्राजापत्यमिति स्थितिः । एवं धर्मप्रवृत्तस्य राज्ञो दण्डधरस्य च । .यशोऽस्मिन् प्रथते लोके स्वर्गे वासस्तथाऽक्षयः । अङ्गिराः दण्डधराः । आत्महन्तुदण्डः । राजा गुरुर्यमश्चैव शासन् धर्मेषु युज्यते । कर्ता च मुच्यते पापान्न स पापेन लिप्यते || आत्मानं घातयेद्यस्तु रज्वादिमिरुपद्रवैः । मृतोऽमेध्येन लेप्तव्यो जीवेच्चेद् द्विगुणो दमः । वृद्धवसिष्ठः महामापेषु ब्राह्मणदण्ड: सुरापाने ध्वजाङ्कनं स्तेये चश्वपदाङ्कनम् ब्रह्महत्यायां गर्दभाङ्कन गुरुतल्पगमने भगाङ्कनम् । स्मृत्यन्तरम् निमित्तभेदेन दण्डतारतम्य विचार: अशास्त्रोक्तेषु मार्गेषु पापयुक्तेषु कर्मसु । समीक्ष्य दण्डं दण्डश्रेषु पातयेदविचारयन् ॥ आद्ये तु दण्डपाद: स्याद्वितीयेऽर्ध तृतीयके । पादन्यूनं चतुर्थे च पादे संपूर्णदण्डभाक् || तद्विगीतत्वादप्रमाण मिति प्रपञ्चतं विश्वरूपाचार्येण । स्मृच.१२२ ब्राह्मणोऽवध्य: वंधाहते ब्राह्मणस्य दण्डो भवति कर्हिचित् । अवध्या ब्राह्मणा गावो लोकेऽस्मिन् वैदिकी श्रुतिः।। महापापेषु ब्राह्मणदण्ड: गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने । (१) विर.६३८; दवि. ५०; समु. ७०. (२) विर. ६३८ स्थि (श्रु) उत्त; दृषि. ६१; समु. ७० रन् (रेतू) चाव (वाव). (३) पमा. ५८३; समु. १६५. यथाक्रमं प्रवक्ष्यामि चिह्नान्याह यथा मनुः गुरुतल्पे भगः कार्यः कृतघ्नस्य द्विजन्मनः । सुराध्वजं सुरापाने सुरापस्यापि कारयेत् || स्तेये तु श्वपदं कृत्वा शिखिपिच्छेन कुट्टयेत् । अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः ॥ य एतैः पतितैः सार्ध संयोगं कुरुते नरः । सोऽसंभोज्यश्च कर्तव्यो मनुः स्वायम्भुवोऽब्रवीत् ॥ एते त्याज्याः कृताङ्काः स्युर्ज्ञातिसंबन्धिबान्धवैः।। अग्निपुराणम् पंणानां द्वे शते सार्ध प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ॥ शुक्रनीति: दण्डप्रयोजनम् । दण्डप्रयोगविवेकः । दण्डप्रकाराः | कालविशेषेण दण्ड विशेष: । राज्ञा साम्यबुद्धया दण्डः प्रणेयः | कालस्य कारणं राजा सदसत्कर्मणस्त्वतः । स्वक्रौर्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत्प्रजाः ॥ स्वप्रजानां न भेदेन नैव दण्डेन पालनम् । कुर्वीत सामदानाभ्यां सर्वदा यत्नमास्थितः || स्वप्रजादण्डभेदैश्च भवेद्राज्यविनाशनम् । हीनाधिका यथा न स्युः सदा रक्ष्यास्तथा प्रजाः॥ निवृत्तिरसदाचाराद्दमनं दण्डतश्च तत् । येन संदम्यते जन्तुरुपायो दण्ड एव सः ॥ स उपायो नृपाधीनः स सर्वेषां प्रभुर्यतः । निर्भर्त्सनं चापमानो नाशनं बन्धनं तथा ॥ ताडनं द्रव्यहरणं पुरान्निर्वासनाङ्कने । व्यस्तक्षौर मसद्यान मङ्गच्छेदो वधस्तथा ॥ युद्धमेते ह्युपायाः स्युर्दण्डस्यैव प्रभेदकाः । जायते धर्मनिरता प्रजा दण्डभयेन च || करोत्याधर्षणं नैव तथा चासत्यभाषणम् । क्रूराश्च मार्दवं यान्ति दुष्टा दौष्टषं त्यजन्ति च।। पशवोऽपि वशं यान्ति विद्रवन्ति च दस्यवः | पिशुना मूकतां यान्ति भयं यान्त्याततायिनः || करदाश्च भवन्त्यन्ये वित्रासं यान्ति चापरे । अतो दण्डधरो नित्यं स्यानृपो धर्मरक्षणे || | (१) अपु. २२७/४.५. (२) शुनी. १९६०. (३) (४) विर.६४८; दवि. ११; सेतु. २९९ लिप्य (युज्य). (५) विर.६६३; दवि ३१९. (६) सवि.४६७. (७) समु.६९. (८) स्मृच.१२२; प्रका. ७७; समु. ६७ ण्डपादः (ण्ड:पादः). (९) बाल. २।२६. (१०) समु.६८. । ४।३८-६९. ---