पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ५९६ गुणवान्, एतेषु निकृष्टेषु अल्पधनेषु वधार्हषु अनु- सारतः मुवर्णशतासंभवेऽपीदं, तस्याप्यसंभवे सर्वस्वम् । विर.६५७ 'विप्रो वधाङ्गच्छेदार्हो निःसङ्गे बन्धने विशेत् | तदा कर्मवियुक्तोऽसौ वृत्तस्थस्य दमो हि सः ॥ कूटसाक्ष्यपि निर्वास्यो विख्याप्योऽसत्प्रतिग्रही । अङ्गच्छेदी वियोज्य: स्यात्स्वधर्मे बन्धनेन तु ॥ वधाङ्गच्छेदाहों यस्मिन्नपराधे वधोऽङ्गच्छेदो वा इति तद्वान्, विप्रः अत्र सदाचारनिष्ठः, निःसङ्गे क्रिया- योगशून्ये, यत्र बद्धः सन् स्वधर्म कर्त्तुं न पारयति, स एव सदाचारस्य दमः यत् स्वधर्मवियोजनं नाम, विख्याप्यस्तेन रूपेण लोके प्रकाशनीयः । अङ्गच्छेदी परस्याङ्गच्छेत्ता | विर.६५७-६५८ कर्णोष्ठघ्राणपाढालिजिह्वाशिश्नकरस्य च । छेदने चोत्तमं दद्याद्भेदने मध्यमं भृगुः ॐ ॥ ऐतैः समापराधानां तत्राप्येवं प्रकल्पयेत् । बालवृद्धातुरस्त्रीणां न दण्डस्ताडनं दमः || समापराधानामङ्गान्तरच्छेदभेदकर्तॄणाम् कृतापराधविषयमेतत् । । प्रमाद- विर.६५८ स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः । निर्धना प्राप्तदोपा स्त्री ताडनं दण्डमर्हति ॥ यदि धनवती स्त्री, तदा दोपे धनं दण्डः, अधना यास्तु ताडनमेवेत्यर्थः । विर.६५९ अन्यायार्जितं वित्तं वर्ज्यम् । दण्डवनं विप्रभ्यो दद्यात् । अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् । कार्यार्थे कार्यनाशः स्याद्बुद्धिमान्नोपपातयेत् ॥ दत्वा धनं तद्विप्रेभ्यः सर्व दण्डसमुत्थितम् । पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥ एवं चरेत्सदा युक्तो राजा धर्मेषु पार्थिवः ।

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुण्यप्रकरणे द्रष्टव्यः ।

(१) विर. ६५७ विप्रो वधाङ्गच्छेदाहों ( वधाङ्गच्छदार्ह विप्रो) तदा (तद) वृत्तस्थ (वृत्तस्त); दत्रि. ६६ विप्रो ... हो (बधाङ्गच्छेदार्हो विप्रो) यु (मु); सेतु. ३१३ वृत्तस्थ (धृतस्त). (२) विर.६५७; दवि. ६ ६ ६य (क्ष्येs). (३) विर.६५८; दवि. ५९ उत्त : २५६ पू. (४) विर. ६५९; दवि. ५९; सेतु. ३१४ स्त्री (स्त्रीं). (५) विर.६६३. हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥ उशना महापापेषु ब्राह्मणदण्ड: ब्राह्मणस्यापराधेषु चतुर्ष्वको विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने । इतरेषां तु वर्णानामङ्कनं नात्र कारयेत् || व्यासः अल्पदण्डविषय: 'व्याधिना पीडितो यस्तु यः कश्चिदपि ताम्यति । नैतन्मया पुनः कार्य ब्रूयात्तस्यार्धको दमः ।। यमः राज्ञः सर्वे दण्ड्या: सर्वेषामेव वर्णानामन्योन्यस्यापराधिनाम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥ ब्राह्मणस्य वधातिरिक्तो दण्ड: । महापापेषु ब्राह्मणदण्डः | पतितद्ण्ड: परिपदि देयः । सर्वस्वदण्डे जीवनमवशेषणीयम् । जगत्सर्वमिदं हन्याद्ब्राह्मणस्य न तत्समम् | तस्मात्तस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ अवध्यान् ब्राह्मणान् प्राहुः सर्वपापेष्ववस्थितान् । यद्यद्विप्रेषु कुशलं तत्तद्राजा समाचरेत् ॥ ब्रह्मणस्याराधेषु चतुर्ष्वव विधीयते । शिरसो मुण्डनं दण्डं पुरान्निर्वासनं तथा ॥ प्रख्यापनार्थ पापस्य प्रयाणं गर्दभेन तु । ललाटे चाङ्करणं कुर्याद्राजा यथाविधि || (१) स्मृच. १२५; पमा २१० (=) धेषु (धे तु) र्ध्व (ध्व); प्रका. ७९ धेपु (धे तु); समु.६८. (२) स्मृच. १२६; पमा. २११ पिताम्य (ति नान्य ) पुन: (कृतं); प्रका. ८०; समु. ६९. (३) विर.६३१ शा (श) दण्डं धर्म्य (धर्म्य दण्डं ) मनुः; बाल. २/२६ : २१८१ पू. (४) विर.६३१ मनुः; बाल. २१२६; समु.६८. (५) विर.६३१ प्रा (आ) वस्थितान् (यं विधि:) पू., मनुः; बाल. २।२६; समु.६८ प्रा (आ). (६) विर.६३६ व (बं); दवि.४७; बाल. २।२६; समु. ६८ व (वं ) दण्डं (दण्डः). (७) विर.६३६ चाङ्क (वाङ्क); दवि.४७; बाल. २|२६ तु (च); समु.६८ तु (च) चाङ्क (चिह्न).