पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९० उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च स्तनौ देहस्तथैव च ॥ अपराधं परिज्ञाय देशकालौ च तत्त्वतः | सारानुबन्धावालोच्य दण्डं दण्डयेषु पातयेत् || अपराधस्याल्पत्वमहत्वे ज्ञात्वा देशं स्वस्थं विपरीतं च । यथा स्वस्थे (न) तथा विपरीते । कालं यथा सुभिक्षे (न) तथा दुर्भिक्षे प्राणातिपातावस्थायाम् । सारं यथा ब्राह्मणस्य न तथेतरेषां, यथा वा क्षत्रियस्य न तथेतरयोः, यथा ब्राह्मणस्वं हरतो गरीयान् न तथे- तरस्वम् । अनुबन्धं आजीवं गुरुकलत्रद्यूतदासीपाना- द्यर्थम् । यस्मिन् दण्डिते महानधर्मः यथा लिखितस्य हस्तच्छेदे, यामश्व शासिते भूयान् धर्मः यथा जम्बु- कस्य, एतत्सर्वमनुरूपं दण्डयेषु कुर्यात् । न यथोक्तमे- वेति सर्वशेषः । नाभा. १९/९६ व्यवहारकाण्डम् नै मित्रकारणाद् राज्ञो विपुलाद् वा धनागमात् । उत्स्रष्टव्याः साहसिकास्तस्करा लोकवञ्चकाः ॥ यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे । भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः ।। ब्राह्मणस्य वधभिन्नो दण्डः ने जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् । निर्वासं कारयेत् कामं समग्रधनमक्षतम् ॥ सर्व वापि हरेद् राजा चतुर्थ वाऽवशेषयेत् । विप्रेभ्योऽनुस्मरन् धर्म प्राजापत्यमिति स्थितिः ॥ ब्राह्मणस्यापराधेषु चतुर्व विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने || स्तेय इत्यविशेषवचनान्न शारीर इत्यादिप्रतिषेधान्महा- पातकसाहचर्याद् ब्राह्मणसुवर्णस्तेये । नाभा. १९।१०१ (१) नासं. १९९५; नास्मृ. २११३७ स्तनौ (धनं). (२) नासं. १९९६; नास्मृ. २१.३८ (सारानुबन्धावालोक्य दण्डानेतान्प्रकल्पयेत् ). (३) नासं. १९/९ ७; नास्म २११३९ ज्ञो (ज्ञा) (उत्स्रष्टव्यः साहसिकरत्यक्तात्मा मनुरब्रवीत् ). (४) नासं. १९९८; नास्मृ. २११४०. (५) नालं. १९ / ९९; नास्मृ. २१/४१ (निर्वास्थं कारयेत् काममिति धर्मो व्यवस्थितः). (६) नालं.१९/१००; नास्मृ. २११४२ व वाऽपि (र्वस्वं बा) विप्रे (एते). (७) नासं. १९१०१; नास्मृ. २१ ४३ ; विर.६३६; बाल. २/२६. गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्वपदं कृत्वा शिखिपित्तेन पूरयेत् ॥ (१) मयूरपित्तेन पूरिते न क्रीडन् तिरोभवति । उत्तरत्र ललाट इति वचनादिह देशावचनेऽपि ललाट एवेति गम्यते । नाभा. १९/१०२ (२) टङ्केन ललाटमुत्खाय मयूरपित्तन पूरणमित्येतत् प्रकारान्तरं हरितिकेति प्रसिद्धम् । दवि.४७ अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः । असंभाष्यश्च कर्तव्य स्तन्मनोरनुशासनम् || ब्राह्मणस्य ब्रह्मघातिनः ललाटादौ कबन्धवत् पुरुषो- ऽक्यः, असंभाष्यश्च कर्तव्यः निर्वास्य इत्यर्थः । नाभा. १९/१०३ कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीयानि आयुधान्यायुधीयानां वाह्यादीन् बाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यातोद्यादि तद्विदाम् || यच यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतत् न राजा हर्तुमर्हति ॥ (१) नासं. १९/१०२; नास्मृ. २१४४ सुराध्वजः (ध्वजः स्मृतः) चतुर्थपादं विना; मिता. २।२६ (स्तेये तु श्वपदं कार्य ब्रह्महण्यशिराः पुमान्); अप. २।२६ मितावत् ; स्मृच. १२५ मितावत् ; विर. ६३६ तु (च) पित्ते (नन्ते); पमा. २१० तु (च) शेषं मितावत् ; दवि.४७; विता.८९ मितावत् ; बाल. २|२६ पित्तेन (ग्रीवेण); प्रका. ७९ मितावत् ; समु. १५७ मितावत् . (२) नासं. १९ | १०३ अशि (विशि); नास्मृ. २१४५; विर. ६३७ ब्रह्म (द्विज) श्च (स्तु); दवि.४७ विरवत्, पू.; बाल. २१२६ अशि (विशि) शेषं विरवत्. (३) नासं. १९ | ११ इया (श)दि(नि); नास्मृ. २०११० ( आयु- धान्यायुधीयानां शिल्पद्रव्याणि शिल्पिनाम्) रान् (रं); मिता. २।३०२ वाया (वाय); अप. २।३०१ इया (श) वायातोबादि (आतोयादीनि); पमा. ५८१ (आयुधान्यायुधीयानां बीजानि कृषिजीविनाम् ) दि (नि); सवि. ४९३ यातोयादि तद्विदाम् (ह्यमातोद्यजीविनाम्); ब्यङ.१६५ ह्या (चा) स (य) तो (न्या); व्यम. ११०; विता. ८२७ बायातोयादि (आतोयानि च); समु.७० रान् ( रं) दि (नि). (४) नासं. १९/१२ तत् ( तान् ); नास्मृ. २०११ रूकाः (रवः) तत् (तान्); मिता. २।३०२; अप. २ ३०१ नास्मृवत् ; पमा. ५८१; दवि. ६१ नास्मृवत्; सवि.४९३ च्च (स्य); व्यउ. १६५ हर्तु (वक्तु);ग्यम. ११०; विता.८ २८; समु. ७०,