पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् लादिपरिपालनाधिकृतस्यायं धर्मो वेदितव्य: । 'राज- धर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः' इत्यत्र पृथङ्नृप- ग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणय- नायत्तत्वादिति । मिता. (३) अपराधादि शात्वा दण्डं दण्डयेषु पातयेत्प्रयु- ञ्जीत । अत्र च पूर्ववाक्यप्राप्तत्वादपराधज्ञान मनूद्यते । देशादिज्ञानं तु विधीयते । क्वचिद्विदेशे स्वल्पेनैव शीतेन आतपेन वा स्वल्पकालीनेन भोजननिवारणेनाधिका पीडा भवति । कचित्तु महताऽपि न तावती । तथा काले शरदादौ । तथा दण्डनीयवलं विदित्वा ताडना- दिदण्डो विधेयः। तथा वयः कर्मवित्तानि । अन्यथा सत्स्वरूपनाशोऽग्निहोत्रादिकर्मलोपो वित्ताप्राप्तिश्च स्यात् । देशादि विदित्वा तु दण्डप्रणयने योगक्षेमानुपपद्यते इति । एतत्सर्वे क्षत्रियस्य राज्यं कुर्वतः प्रविहितम् । यदा पुनरक्षत्रियः क्षत्रियकार्यं कुर्यात्तदाऽनेनाप्येतत्सर्व- मनुडेयम् । 'तत्कार्यापत्त्या तद्धर्मलाभः' इति न्यायात् । कर|दानप्रयुक्तत्वाच्च प्रजापालनस्य । सर्वो हि धनं प्रयच्छन्नात्मसमवाय प्रयोजनमुद्दिशति । न च कर- दानस्य स्वगुतेरन्यत्प्रयोजनमस्ति । तस्मात्करमाददानेन प्रजापालनं विधेयमिति सिद्धम् । अप. अधर्म्यदण्डने राजानं प्रति दण्ड: राज्ञाऽन्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्य: स्वयं त्रिंशद्गुणीकृतम् || - (१) ऋणादानाद्यखिलव्यवहारसंबन्धितया यथा- स्थानं युक्त्यागमानुसारेण प्राप्तोऽपि हि — राज्ञा न्यायेन इत्यादि । राज्ञा न्यायेन प्राप्तोऽपि हि यो दण्ड: स्नेहा- दिना कथंचिदगृहीतः, तं स्वयमेव त्रिंशद्गुणीकृत्य उदकसंनिधौ वरुणाय निवेद्य वरुणमुद्दिश्येत्यर्थः । ततो विप्रेभ्यः प्रागुक्तदानविध्यनुसारेण (देयम् ? दद्यात्) । चोदनामूलत्वाच्चास्याः स्मृतेरकरणेऽन्यथाकरणे वा प्रत्यवाय इत्येवं व्याख्येयम् । अन्यायेन वा यो दण्डो (१) यास्मृ. २१३०७; अपु. २५८/८२; विश्व. २।३१० झाऽग्या (ज्ञा न्या) ण्डो गृ (ण्डो) मिता.; अप. २।३०६; विर.६६३; पमा. ५८२ ( =); दवि. ७ ; सवि. ५०० यात् (स्वा); वीमे.; व्यउ. १६५; न्यम. ११०; विता. ३०:८३० राज्ञाऽन्यायेन (अभ्यायेम तु); राकौ.४ .४९५; समु.७०. राज्ञा गृहीतः, तं स्वयमेवान्येनाशक्योऽपि कारयितुं त्रिंशद्गुणं वरुणाय निवेद्य विप्रेभ्यो दद्यादिति । यद्वा न्यायेनैव राज्ञा यो दण्डो गृहीतः, तमेव च सामर्थ्यात् स्वयमेव त्रिंशद्गुणीकृतं विप्रेभ्यो दद्यादिति । सर्व चैतत् श्रुतिस्मृत्यनुसारान्न्याय्य मेवेत्यव सेयमिति । विश्व. २।३१० (२) अन्यायगृहीतदण्डधनस्य गतिमाह राशा. न्यायेनेत्यादि । अन्यायेन यो दण्डो राज्ञा लोभाद् गृही- तस्तं त्रिंशद्गुणीकृतं वरुणायेदमिति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्माद्दण्डरूपेण यावद्गृहीतमन्यायेन तावत्तस्मै प्रतिदेय मितरथाऽपहारदोषप्रसङ्गात् । अन्याय- दण्डग्रहणे पूर्वस्वामिनः स्वत्वविच्छेदाभावाच्चेति । मिता. -- नारदः दण्डप्रयोजनम् । धर्म्यदण्डः राज्ञा कर्तव्यः । राजा त्ववहितः सर्वानाश्रमान् परिपालयेत् । उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतीस्तथा ॥ यो यो वर्णोऽवहीयेत यश्चोद्रेकमनुव्रजेत् । तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि || वैर्णाश्रमाणां संस्थानमानुपूर्व्यानुपूर्वशः । तेषां हेतुरवस्थाने राजा सुप्रस्थितो यदि || राजमूलमिदं राष्ट्रं ब्रह्मक्षत्र पुरोगमम् । स्थिते राजनि तद्धर्मे दुराचारान्न कुर्वते ।। अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीक्ष्यात्मना राजा दण्डं दण्डधेषु पातयेत् ॥ श्रुतिस्मृतिविरुद्धं च जनानामहितं च यत् । न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् || न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् । तदप्यन्यायविहितं पुनर्व्याये निषेशयेत् ॥ न्यायापेतं करपातनादि यदन्येन राज्ञा कृतमपि । निवर्त

  • स्थलादिनिर्देश: दर्शनबिधौ पृ.९० ) द्रष्टव्यः ।

व्याख्यानान्तराणि दर्शनविधौ कात्यायने (पृ.१०४ ) द्रष्टभ्यानि । (१) नासं. १९१५ कृती (कृतै); नास्मृ. २०१५; विर. ६२३-६२४. (३) नासं. १९१६ इव (इप) यश्चो (यो वो); नास्मृ २०।६ ऽव (ऽप) यश्चो ... व्रजेत् (यो य उद्रेकमामुयात्); विर. ६२४) दवि.२६०. (३) विर.६२४. (४) नासं. १९/७३ नास्म. २०१७ त्मना (त्मनो),