पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका ५८५ योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे || (१) अथ कि सर्वापरावृत्तम साहसाद्यपेक्षया दण्डः प्रयोज्य: । नेत्युच्यते - वाग्दण्डस्त्वथेति । वाग्दण्डः स्वरूपाभिवानमात्रम् | धिग्दण्डः कुत्सनम् | धनदण्ड उक्तः । वधदण्ड: शारीरः । तथाशब्द उच्चाटनाद्यर्थः । स्पष्टमन्यत् । विश्व . १ | ३६२ दण्डसंशाः साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदर्ध मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ (१) ताम्रकर्षस्तु पणसंज्ञः । अशीतिकृष्णलः षोडश माघः कर्षः । तद् दर्शयति - साशीतिः पणसाहसी दण्ड उत्तमसाहसः । सैषा पणशब्दवाच्या कृष्ण- लाशीतिः । ताम्रग्रहणमुपलक्षणं सुवर्णरूप्ययोरपि । कार्षिकपणो दण्डविशेषापेक्षया योज्य: | सहस्रगुणित उत्तमसाहसो दण्डः । यद्वा सहाशीत्या वर्तत इति साशीतिः । अशीत्यधिकसाहस्र इत्यर्थः । तदर्ध मध्यम- साहसः । स्मृत इति, शास्त्रादियं व्यवस्था न प्रमाणान्तरा- दित्यर्थः । संज्ञाकरणं स्वशास्त्रसंव्यवहारार्थम् । उत्तम- साहसादिदण्डवचनेप्वेत एव यथा स्युः । विश्व . १ । ३६१ (२) स्वशास्त्रपरिभाषामाह - साशीतीति । पणानां सहस्रं पणसहस्रं तत्परिमाणमस्येति पगसाहस्रः । अशीत्या सह वर्तत इति साशीतिः । अशीत्यधिकपण- सहस्रपरिमितो यो दण्डः स उत्तमसाहससंज्ञो वेदितव्यः । तदर्धे मध्यमः तस्य साशीतिपण सहस्रस्यार्धं चत्वारिंशद- धिकपणपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञः । तदर्धमधमः तस्य चत्वारिंशदधिकपञ्चशतपणस्यार्धं सप्तत्यधिकपणशतद्वय परिमितो दण्डोsधमसाहससंज्ञः स्मृत उक्तो मन्वादिभिः । यत्तु 'पणानामि'ति मनुनोतं तत्पक्षान्तर ममतिपूर्वापराधविषयं द्रष्टव्यम् । +मिता. (३) अतो यत्र यत्रोत्तमसाहसादिशब्दैर्दण्डो निगद्यते तत्र तत्रैतत्संख्याकाः कार्षापणास्तन्मूल्यनिष्कादयो वा ग्रहीतव्याः । स्मृच. १२८ दण्डप्रकाराः, अपराधानुरूपव्यवस्था च "धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । (२) दण्डभेदानाह --धिग्दण्डत्वथेति । धिग्दण्डो विग्धिगिति कुत्सनम् । वाग्दण्डस्तु परुपशापवचनात्मकः । धनदण्डो धनापहारात्मकः । वधदण्ड: शारीरोडवरोधादि- जीवितान्तः । एते चतुर्विधा दण्डाः व्यस्ता एकैकशः, समस्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्रयोक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनुः 'विग्दण्डमित्यादि । मिता. ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा । वयः कर्म च वित्तं च दण्डं दण्डयेपु पातयेत् || (१) अयं चात्र व्यवहारनीतिसंक्षेपः - ज्ञात्वाऽप. राधमिति | अपराधपुनर्वचनं दृष्टान्तार्थम् । यथैवापराधं ज्ञात्वा तदपेक्षया दण्डप्रकल्पनं, तथैव च देशकालाद्य- पेक्षयापीत्यभिप्रायः । ज्ञात्वेति पुनर्वचनं निर्णीतेऽपि व्यवहारे धर्मानुसारेण पुनर्व्यवहारोद्धरणार्थम् । स्पष्ट विश्व. १।३६३ ज्ञात्वाऽपराध- मन्यत् । दण्डव्यवस्थानिमित्तान्याह (२) मिति । यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनमेवं देशकालवयः कर्मवित्तानि ज्ञात्वा तदनुसारेण दण्डयेषु दण्डाहपु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबुद्धि- पूर्वसदावृत्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्तस्तथापि वर्णान्तरस्यापि विषयमण्ड. स्मृच. १२५ विश्ववत् ; पमा. २०५ धिंग (बाग) वाग् (धिग्) ह्य (अ); सत्रि.४५४ मे (ह); वीमि.; विता.८९ विश्ववत् ; प्रका. ७९ विश्ववत्; समु.६८ विश्ववत् . 1

  • दवि. विश्ववत् मितावच्च + अप. मितावत् ।

(१) यास्मृ. ११३६६; विश्व . १ | ३६१ तिप (ति: प) स्रो (स्त्री); मिता; अप. १।३६४ तिप (ति: १); स्मृच. १ २७ ; विर.६६५; पमा. २१२; स्मृसा.८३ अपवत् ; स्मृचि. ३७; दवि. २३; नृप्र. १७; सवि.४५३; वीमि. अपवत् ; व्यम. ११० (=); विता.२७६ अपवत् ; प्रका. ८१; समु. ७० भाच.८।१२० अपवत्. (२) यास्मृ. १।३६ ७; विश्व ११३६२ धिग् (वाग् ) वाग् (धिग् ) ह्य (ऽप्य) वशा (बला); मिता.; अप. ११३६ ५ ह्य (ऽप्य); | (१) यास्मृ. ११३६८; विश्व ११३६३ वा (च) दण्ड दण्डचेषु पात (ज्ञात्वा दण्डं प्रकल्प); मिता; अप. १ ३६६; स्मृच. १२७; विर.६२७ पात (कश्य); व्यचि.९६ (वयश्च कर्म चरितं दण्डं दण्ड्येषु दापयेत् ); दवि.६४ विरवत् ; व्यत. २३१ पात (दाप); सवि.४५४-४५५ वा (च); वीमि प्रका.८०; समु. ६९. स्रो (सं); म. का. ७४