पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् वरुणायेदमिति मनसा ध्यायन्नप्सु दद्यादप्सु निक्षि पेत् । ब्राह्मणाय वा विद्याशीलसंपन्नाय दद्यात् । मेधा. 'ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ पूर्वस्य प्रतिपत्तिविधेरर्थवादोऽयम् । महापातकिनां दण्डस्य वरुण ईष्टे । यतो राज्ञां स दण्डधरो नेता ईशितेति यावत् । एवं ब्राह्मणोऽपि तद्धनस्येशोऽनेन ग्राह्यः । मेधा. यंत्र वर्जयते राजा पापकृद्भयो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः || निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् । • बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥ प्रसिद्धा विभावप्यर्थवादश्लोकौ । कालेन जायन्ते इति वर्तमानजन्म न विवक्षितं जाता जनिष्यमाणाश्च । विकृतिः करचरणाक्षिविहिनम् । मेधा. युक्तदण्डप्रशंसा यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे । अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥ अवध्यवधे यो दोषस्तत्तुल्यो वध्यमोक्षणे राज्ञ उपर्यु- क्तस्य षड्भागहरस्य स्वकर्माकुर्वतः प्रत्यवायेन अवश्य मेव भवितव्यम् । कुर्वतस्तु न कदाचिददृष्टासिद्धिः । यस्त्वयं धर्मस्तु विनियच्छत इति एवमादिधर्मप्रवादः सर्वोऽसौ स्वकर्मानुष्ठानप्रशंसार्थोऽर्थवादः । राज्यनिग्राह्य- संस्कारार्थस्त्वयं वधोपदेशः । अतो यथाश्रुतिचित्र- वधोपायैः कर्तव्यः । दृष्टार्थेषु राज्यतन्त्रसिध्यर्थवधश्रवणं यथा हि साधनश्च (?) हन्यादित्युक्तम् । तत्र दृष्टप्रयोजन ३(१) मस्मृ. ९ २४५; विर.६३८ घरो (धनो) राज्ञां (राशो); विचि. १९० प्रथमपादः, गौतमः; दवि. ४९; बाल. २ । ३ ० ७; सेतु. ३२ ७ ईशो दण्डस्य (ईश: सर्वस्य); समु. १५८. (२) मस्मृ. ९।२४६; विर. ६३८ पापकृद्भ्यो (ब्राह्मणेभ्यो); बाल. २१३०७; सेतु. ३२७.

(३) मस्मृ. ९।२४७ ख पुस्तके कृतं (कृतिः); विर.६३८

तानि विशां पृथक् (क्तानि विशाम्पते) न च जायते (जायते न च); बाल. २।३०७ प्तानि (क्तानि); सेतु. ३२७ प्तानि विशां पृथक् (क्तानि कृषीवलै:). (४) मस्ट. ९ २४९; विर. ६४९ वधे ता (वधे या ) स्तु वि (श्चैव); दवि. ६ स्तुवि (श्चैव); विष्य. २ (अवध्यस्य वधे यावान् तावान् वध्यस्य रक्षणे) पू. १ पातकिनं. स्वादुपदेशस्य न नियतो वधः । एवं च सत्युपायान्तरे. णापि बन्धनादिना नियच्छतो न दोषः । मेधा. वाल्मीकि रामायणम् दण्डप्रयोजनम् ने हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादन्यत्र पश्यामि निग्रहं हरियूथप || देण्डघे यः पातयेद्दण्डं दण्डयो यश्चापि दण्डपते । कार्यकारणसिद्धार्थी उभौ तौ नावसीदतः ॥ याज्ञवल्क्यः राजा दण्डघर: स्वाम्यमात्या जनो दुर्ग कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते # || ते॑दवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा || (१) एवं यद् दैवपुरुषकाराभ्यां कथमपि प्राप्तुं शक्यं राज्यं प्राक्तनानेकविधपुण्यसमुदायादैहिकवि- चित्रगुणसंपद्योगाच्च, धीमान् कृतविद्यः सत्यसंधश्च - 'तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत्' । कस्मात् । यस्मात् - धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा । तद् राज्यं राजा सुदुर्लभं लब्ध्वा निर्व्याजप्रसाधितसमग्र- दण्डपातैश्चतुर्वर्गप्राप्तिलम्पटः प्रयत्नाद् दुर्विनीयमाना- नालोच्याविनीतेषु यथार्ह दण्डं पातयेत् । न चातिमृदु- हृदयतया हृद्विलेखः । धर्म एवायं दण्डाभिधानो ब्रह्माण्डान्तर्वर्त्यखिलप्राणिसङ्घोपकारार्थ ब्रह्मणा वेदेन निर्मितो विहितः । पुरेत्यनादित्वेन निर्विचिकित्सानुष्ठान- प्ररोचनार्थम् । तथा च गौतमः - 'ततः शेषेण विशिष्ट- देशजाती'त्युपक्रम्य 'विष्वञ्चो विपरीता नश्यन्ति । तानाचार्योपदेशो दण्डश्च पालयते । तस्माद् राजाचार्या- वनिन्द्यावि'त्यादि । + आम्नायश्च – 'सह वा इदमभवत् ।

  • व्याख्यासंग्रह; राजनीतिकाण्डे द्रष्टव्यः ।

+ अयमाम्नाय: (पृ.५६६) इत्यत्र द्रष्टव्यः । (१) वारा. ४|१८|२१. (२) वारा.४|१८|६५. (३) यास्मृ. १३५३; विश्व. १ ३४९ त्या (त्यो); मिता; अप. १।३५१ त्या (त्यौ) र्ग ( र्गः ); सवि. ४६ त्या जनो (त्यजना); वीमि. (४) यास्मृ. १ ३५४; विश्व. ११३५०; मिता; अप. १ । ३५२; सवि.४६ धर्मों हि दण्ड ( दण्डो हि धर्म); वीमि.