पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असंभोज्या ह्यसंयाज्या असंपाठयाविवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ।। सर्वधर्मग्रहणादेवासंभोजनादीनां सिद्धे प्रतिषेधे दोष- गुरुत्वख्यापनार्थमेषामुपादानम् । संभोग एकत्र ग्रसनं गीतादिश्रवणं च । संयोजनं तेषामेव योजनं तैः सह याजनं वा । एवं संपाठोऽपि द्रष्टव्यः । असंपाठ्याविवा- हिन इति । असंपाठ्याश्च अविवाहिनश्चेति द्वन्द्वः । दीना इति । सत्यपि स्ववत्वे तत्संबन्धनिषेधः भिक्षादि भोजनेन परयाऽवज्ञया च वस्त्रखण्डादिवर्जनम् । मेधा. ज्ञातिसंबन्धिभिस्त्वेते व्यक्तव्याः कृतलक्षणाः । निर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ कृतलक्षणा इति निश्चिते कार्यकारणत्वे इत्यर्थः । व्याध्यादियोगेऽप्येषु दया न कर्तव्या । ज्यैष्ठ्यादिगुण- योगेऽपि च नैते नमस्कार्याः प्रत्युत्थानादिभिः । एत्र एवं वचनसामर्थ्याद्धर्मो विज्ञेयः । मेधा वर्णविशेषेण महापातकिदण्डविचार: · दण्डमातृका प्रायश्चित्तं तु कुर्वाणाः पूव वर्णा यथोदितम् । •नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ शूद्रादन्ये पूर्ववर्णास्तेषां प्रायश्चित्तं कुर्वतामङ्कनं (१) मस्मृ.९।२३८; अप.२।२७० ज्या (ज्यास्त्व) हिन: (हिका:) ; स्मृच. ३२४; विर. ६३५ झ (अ) दीना: ... ताः ( सर्वा दाप्यास्तूत्तमसाहसम् ); दवि.४५ पू.; सवि. ४७४ दीनाः सर्वधर्म (सर्वा सर्वकर्म); बाल. २२६; समु. १५७ असंपाठ्या (अपाठ्याश्चा) दीना: (सर्वां); भाच. भोज्या (पङ्क्त्या). (२) मस्मृ.९।२३९; स्मृच. ३२४ स्त्वे (श्चै) व्यक्त (कर्त) निर्दया (निर्वाच्या); विर.६३५; दवि.४५; सवि.४७४ निर्दया (निर्वाचा); बाल २२६; समु. १५७ स्मृचवत्. (३) मस्मृ.९।२४० क.घ.पुस्तकयो : पूर्वे (सर्व), ख. पुस्तके पूर्वे (पूर्व); मिता. २१२७० पूर्वे (सर्वे) स्युः (तु); अप. २।२७० पूर्वे (त्रयो) दितम् (चितम्); स्मृच. ३२५ स्युः (तु); विर. ६३५ स्युः (पु); पमा ४४६ पूर्वे (सर्वे); दवि.४७ विरवत ; व्यप्र. ३९० स्युर्दाप्यास्तू (तु दाप्यमु); व्यउ. १२८ तंतु (त्तं च ) शेषं स्मृचवत् ; व्यम. १०२ व्यउवत्; विता. ७९३पमावत् ; बाल २१२६ पमावत् ; सेतु. ३२६ नाङ्क्या (अङ्क्या) स्युः (षु) उत्त.; समु. १५७ स्मृचवत्. १ संयोजनं. २ योजनं, ". १८१ नास्ति दण्डस्तूत्तमसाहसं पणसहस्रं दाप्याः । मेधा. आगस्सु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ॥ प्रायश्चित्तं तु कुर्वाणा इत्येतदत्र नापेक्षते । एतेषु ब्रह्महत्यादिष्वपराधेषु ब्राह्मणो मध्यमसाहसं दण्ड्यः । अकामत इत्युत्तर श्लोकादपकृष्यते । दण्डयित्वा प्रायः श्चित्तं कारयितव्यः । सपरिच्छदः । गुणवतो ब्राह्मण- स्यानुाह्यस्यैतत् । अकामं वाऽनिर्वास्यः । मेधा. ईतरे कृतवन्तस्तु पापान्येतान्यकामतः । सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ इतरे क्षत्रियादयो वर्णा एतानि पापानि महापातका- न्यकामतोऽनिच्छया कृतवन्तः सर्वस्वहस्माः कार्याः । केचित्प्रायश्चित्तमपि कुर्वतामेतद्दण्डं पूर्वेण वैकल्पिक मिच्छन्ति । कामतस्तेषां वध उक्तः । शूद्रस्याकामतों ऽङ्कनसर्वस्वहरणे कामतो वधः । मेधा. महापातकिदण्डधनं राज्ञा न ग्रामम् नादीत नृपः साधुर्महापातकिनो धनम् । आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ||. (१) ननु धनेन दण्डनं राज्ञो वृत्तिरिति स्थापितम् । कथमिह तद्धनस्याग्रहणं उक्तं 'रोजमिः कृतदण्डा' इत्यत्रान्तरे । मेधा. मवि. (२) धनं दण्डरूपमपि । अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रृतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ।। (१) मस्मृ. ९ | २४१; स्मृच. ३२४; विर.६३५ स्यैव (स्यैष);दवि. वे. ४७ आग:सु (आपत्सु) स्थैव (स्यैपु); बाल. २।२६ ; समु. १५७ (२) मस्मृ. ९।२४२; स्मृच. ३२५ वासनम् (मापणम् ); विर.६३५ न्यकामतः (नि धर्मतः) हार (हानि); दवि.४८; वाल. २।२६; समु. १५७ स्मृचवत्. (३) मस्मृ. ९ | २४३; विर. ६३७ न दोषेण (नाधर्मेण); दवि.४९ दोषेण (पापेन); बाल. २१३०७; सेतु. ३२७ विर वत्; समु. १५७ किनो (किनां). (४) मस्मृ.९।२४४; विर. ६३७-६३८ प्रवे (प्रवि) पपाद (पकल्प) वृत्तोपपन्ने वा (विथोपसंपन्ने); दवि.४९ पपाद (पकल्प); बाल.२।३०७; सेतु. ३२७ दविवत् ; समु. १५७ तं दण्डं (तद्दण्डं). १ राजनिर्धृतदण्डा,